क्षतव्रत पु० क्षतं ब्रतमस्य । गृहीतव्रतत्यागिनि अवकी- र्णिनि अमरः तत्प्रायश्चित्तमाह प्रायचित्तविवेके “अथावकीर्ण्णिप्रायश्चित्तम् “अथावकीर्णी मैथुनेन क्षत- व्रतः यथाह याज्ञवल्क्यः “अवकीर्णी भवेद्गरुता ब्रह्म- चारी तु योगितमिति” प्रायश्चित्तमाहाङ्गिराः “अवकी- र्णनिमित्तञ्च ब्रह्महत्याव्रतञ्चरेत् । स्वरचर्म्मवासाः षण्- मासांस्तथा मुच्येत किल्विषात्” । अवकीईर्ण्णमवकीर्ण्णता- भावे क्तः । अत्र सार्द्धसप्तधेन्वः । इदं प्रमादसम्पन्ने एतद्विषय एव याज्ञवल्क्यः “अवकीर्ण्णी भवेद्गात्वा ब्रह्मचा- री तु योषितम् । गर्द्धभं पशुमालभ्य नैरृतं स विशु- द्ध्यति” । प्रयत्नात् स्त्रियमुत्साह्य प्रवृत्ते तु मनुः “एत स्मिन्नेव संप्राप्ते वसित्वा गर्द्दभाजिनम् । सप्ताहानाचरे- द्भैक्ष्यं स्वकर्म्म परिकीर्त्तयन् । तेभ्यो लब्धन भैक्ष्येण वर्त्तयन्नैककालिकम् । उपस्पृशंस्त्रिषवणम्वदेन स वि- शुद्ध्यति” । एतद्विषयएवाभ्यासे शातातपः “अथातो--” वकीर्ण्णिप्रायश्चित्तं व्याख्यास्यामः “ब्रहचारी यद्यव- कीर्य्येत चतुर्थकालमब्दं भैक्ष्यं चरेदेवंपूतोभवतीति- तथा पैठीनसिरपि “अवकीर्ण्णी गर्द्धभाजिनं वसेत् संवत्सरं प्राजापत्यं चरेत्” शङ्खलिखिताभ्यान्तु विक- ल्प एवोक्तः । तद्यथा “सप्तरात्रेणावकीर्य्येत भैक्षाग्नि- कार्य्येकुर्व्वन् सद्यः कामादुतसर्गे रेतसोऽन्यत्र स्वप्नात् तत्र प्रायश्चित्तं महाव्याहृतिभिर्जुहुयात् ओङ्ककारपूर्व्विकाभिः संवत्सरं वा नक्तं भैक्षञ्चरेत् चतुर्थकाले मितभुग्गायत्रीं तरत्समानुगाञ्जपेदिति” । गायत्रीमपि संवत्सरं ज- पेदित्यर्थः । महाव्याहृतिहोमश्च लघुत्वादातिदेशिकाव- कीर्ण्णित्वेन भैक्षाग्नित्यागे स्त्रियं विना कामात् सकृद्रेत- स्त्यागे व्यवतिष्ठते, स्त्रियं विनापि कामाद्रेतस उत्सर्गे प्रमादगमने च वशिष्ठः “ब्रह्मचारी चेत् स्त्रियमुपेयादरण्ये [] चतुष्पथे लौकिकेऽग्नौरक्षोदैवतं गर्द्धभं पशुमालभेत नैरृ- तं वा चरुं निर्व्वपेत् तस्य जुहुयात् कामाय स्वाहा काम- कामाय स्वाहा । नैरृत्यै स्वाहा रक्षोदेवताभ्यः स्वाहा इति एतदेव रेतसः प्रयत्रोत्सर्गे दिवा स्वप्ने व्रतान्तरेषु च” । आसमावर्त्तनाद्रेतो विसर्गे दिवास्वप्नेचाभ्यासे ज्ञेयम् । प- शोरभावे नैरृतं चरुं निर्वपेदित्यर्थः । एतच्चामावास्यायां कर्त्तव्यमित्याह बौधायनः । “अथावकीर्ण्ण्यमावस्यायां निश्यग्निमुपसमाधाय संपरिस्तीर्य्य दार्व्वीं हौमिकीं परिचेष्टां कृत्वा द्वे आज्याहुती जुहुयात्” । अत्र च व्रतान्तरेष्वित्यभिदधता वशिष्ठेन द्वादशाहादिकव्रतेषु पुण्यार्थचान्द्रायणादिषु च यथातिदिष्टं तथाचैतदतिदिष्ट- मविशेषात् । अतएव “कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः । अतिक्रमं व्रतस्याहुर्धर्म्मज्ञा ब्रह्मवादिनः” इति मनुना सामान्येनैवावकीर्णिलक्षणमन्वकारि अका- मतो रेतसः स्रावे मनुः “स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वार्कमर्च्चयित्वातु पुनर्भ्वमित्यृचं जपे- त्” । ब्रह्मचारिणोगुरुदारगमने तु तद्गमनोक्तप्रायश्चित्ते- नैव गुरुणा लघ्ववकीर्ण्णिप्रायश्चित्तं कृतम्भवेत् । यथा दण्डनिपातप्रायश्चित्तेनैव गुरुणा तन्नान्तरीयकावगोरण प्रायश्चित्तं सम्पद्यत” ।
📄 मूल मुद्रित पृष्ठ (2358-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।