क्षतोदरः, पुं, (क्षतं शर्करादिभिन्नं उदरमत्र रोगे । अथवा क्षतात् स्रुतात् जातं उदरं उदररोग- विशेषो यत्र ।) उदररोगविशेषः । तस्य सामा- न्यरूपमाह । “आध्मानं गमनेऽशक्तिर्द्दौर्ब्बल्यं दुर्ब्बलाग्निना । शोथः सदनमङ्गानां सङ्गो वातपुरीषयोः । दाहस्तन्द्रा च सर्व्वेषु जठरेषु भवन्ति हि” ॥ सन्निकृष्टनिदानपूर्व्विकां संख्यामाह । “पृथक्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः । सम्भवन्त्युदरान्यष्टौ तेषां लिङ्गं पृथक् शृणु” ॥ क्षतोदरमाह । “शल्यं तथान्नोपहितं यदन्नं भुक्तं भिनत्त्यागतमन्यथा वा । तस्मात् स्रुतोऽन्त्रात् सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु भूयः ॥ नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यते दाल्यति चातिमात्रम् । एतत् परिस्राव्युदरं प्रदिष्टं दकोदरं कीर्त्तयतो निबोध” ॥ शल्यं कण्टककर्क्करादि अन्नोपहितं अन्ननिहितं भुक्तं यत् अन्नं भिनत्ति तथा अन्यथा आगतं भोजनं विना आगतं शरादि तदपि यदन्नं भिनत्ति एतदुपलक्षणम् । जृम्भणमत्यशनञ्च अत्र भिनत्ति । यत उक्तं चरके । “शर्करातृणकाष्ठास्थिकण्टकैरन्नसंयुतैः । भिद्येतान्त्रं यदा भुक्तं जृम्भयात्यशनेन च” ॥ इति तस्मात् भिन्नादन्त्रात् । गुदतस्तु भूयः अन्त्रात् संस्रुत्य पुनर्गुदतः स्रवेदित्यर्थः । दाल्यति विदीर्य्यत इव । पदसिद्धिरार्षत्वात् । एतत् क्षतोदरं तन्त्रा- न्तरे परिस्राव्युदरं प्रदिष्टम् ॥ तस्य चिकित्सा । “शालिषष्टिकगोधूमयवनीवारभोजनम् । निरूहो रेचनं श्रेष्ठं सर्व्वेषु जठरेषु च ॥ आनूपमौदकं मांसं शाकं पिष्टकृतं तिलाः । व्यायामाध्वदिवास्वप्नयानप्रानानि वर्ज्जयेत् ॥ तथाम्ललवणोष्णानि विदाहीनि गुरूणि च । नाद्यादन्नानि जठरे तोयपानञ्च वर्ज्जयेत् ॥ उदराणां मलाढ्यत्वात् बहुशः शोधनं हितम् । क्षीरेणैरण्डजं तैलं पिबेन्मूत्रेण वा सकृत्” ॥ इति भावप्रकाशः । (उदररोगशब्दे विशेषविवृ- तिरस्य ज्ञेया ॥)
📄 मूल मुद्रित पृष्ठ (2-226-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।