क्षारगुड पु० क्षरेण पक्वः गुडः शा० त० । च० द० उक्ते क्षारपक्वे गुडभेदे यथा “पञ्चमूलं च त्रिफलामर्कमूलं शतावरीम् । दन्तीं चित्रक- मास्फोतां रास्नां पाठां सुधां शठीम् । पृथग्दशपलान् भागान् दग्ध्वा भस्म समावपेत् । त्रिःसप्तकृत्वस्तद्भस्म ज- लद्रोणेन गालयेत् । तद्रसं साधयेदरनौ चतुर्भागावशेषि- तम् । ततो गुडतुलां दत्त्वा साधयेन्मृदुनाग्निना । सिद्धं गुडन्तु विज्ञाय चूर्णानीमानि दापयेत् । वृश्चिकालीं द्वि- काकल्यौ यवक्षारं समां घचाम् । एतत् पञ्चपला मागाः पृथक् पञ्च पलानि च । हरीतकीं त्रिकटुक सर्जिकां चित्रकां वचाम् । हिङ्ग्वम्लवेतसाभ्याञ्च द्वे पले तत्र दापयेत् । अक्षप्रमाणां गुटिकां कृत्वा खादेद्यथाबलम् । अजीर्णं जरयत्येष जीर्ण्णे सन्दीपयत्यपि । भुक्तं भुक्तञ्च जीर्य्येत पाण्डुत्वमपकर्षति । प्लीहार्शःश्वयथञ्चैव श्लेष्म- कासमरोचकम् । मन्दाग्निविषमाग्नीनां कफे कण्ठोरसि स्थिते । कुषठानि च प्रमेहश्चां गुलमञ्चाशु नियच्छति । [] ख्यातः क्षारगुडो ह्येष रोगयुक्ते प्रयोजयेत्” ।
📄 मूल मुद्रित पृष्ठ (2369-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।