क्षारागद पु० सुश्रुतोक्ते औषधभेदे यथा “धवाश्वकर्णतिनिशपलाशपिचुमर्द्दपाटलिपारिभद्रकाम्रोडु- म्बरकरहाटकार्जुनककुभसर्ज्जकफीतनश्लेष्मातकाङ्कोठाम- लकप्रग्रहकुटजशमीकपित्थाश्मन्तकार्कचिरविल्वमहावृक्षा- रुष्करारलुमधुकमधुशिग्रुशाकगोजीमूर्व्वातिल्वकेक्षुरकगो- पघण्डारिमेदानां भस्मान्याहृत्य गवां मूत्रेण क्षारक- ल्पेन परिस्राव्य विपचेद्दद्याच्चात्र पिप्पलीमूलतण्डुलीयक- वराङ्गचोचकमञ्जिष्ठाकरञ्जिकाहस्तिपिप्पलीमरिचोत्पल- सारिवाविडङ्गगृहधूमानन्तासोमसरलावाह्लीकगुहाकोशा- म्नश्वेतसर्षपलवणप्लक्षनिचुलकवर्द्धमानवञ्जुलपुत्त्रश्रेणीस- प्तपर्णदण्डकैलबालुकनागदन्त्यतिविषाभयाभद्रदारुकुष्ठहरि- [] द्रावचाचूर्णानि लोहानाञ्च समभागानि ततः क्षारवदा- गतपाकमवतार्य्य लोहकुम्भे निदध्यात् । अनेन दुन्दुभिं लिम्पेत् पताकातोरणानि च । श्रवणाद्दर्शनात् स्पर्शात् विषात् सम्प्रतिमुच्युते । एष क्षारागदो नाम शर्करास्वश्मरीषु च । अर्शःसु वातगुल्मेषु कासशू- लोदरेषु च । अजीर्णे ग्रहणीदोषे भक्तद्वेषे च दारुणे । शोफे सर्व्वसरे चापि देयः श्वासे च दारुणे । एष सर्ववि- षार्त्तानां सर्वथैवोपयुज्यते । तथा तक्षकमुख्यानामयं द- र्पाङ्गुशोऽगदः” ।
📄 मूल मुद्रित पृष्ठ (2371-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।