क्षीरपानं, क्ली, (पोयते इति । पा + भावे ल्युट् क्षीरस्य पानम् । “वा भावकरणयोः” । ८ । ४ । १० । पाक्षिको णत्वम् ।) दुग्धपानम् । दुग्धपानयुक्तदेशे तत्कर्त्तरि च त्रि । यथा । देशे पानस्य । पूर्व्वपदस्थितषकाररेफऋवर्णेभ्यः परस्य पानस्य नस्य णः स्यात् देशे वाच्ये । पीयते यत्तत् पानं कर्म्मण्यनट् । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सौवीरपाणा वाह्लीकाः । कषायपाणा गान्धाराः । उशीनरादि- [] शब्दानां देशवादिचत्वेऽपि तन्निवाससम्बन्धेन मनुष्येषु प्रवृत्तिः । अथवा क्षीरं पानं यत्र इति व्यत्पत्त्या देशो वाच्यः । भावकरणयोरनटो वा । क्षीरपाणं क्षीरपानम् । क्षीरं पीयतेऽनयेति क्षीरपाणी क्षीरपानी पात्री । इति मुग्धबोध- टीकायां दुर्गादासः ॥ शब्दानां देशवादिचत्वेऽपि तन्निवाससम्बन्धेन मनुष्येषु प्रवृत्तिः । अथवा क्षीरं पानं यत्र इति व्यत्पत्त्या देशो वाच्यः । भावकरणयोरनटो वा । क्षीरपाणं क्षीरपानम् । क्षीरं पीयतेऽनयेति क्षीरपाणी क्षीरपानी पात्री । इति मुग्धबोध- टीकायां दुर्गादासः ॥
📄 मूल मुद्रित पृष्ठ (2-237-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।