क्षुधावती, स्त्री, (क्षुधाऽस्यामस्तीति । मतुप् मस्य वत्वम् ।) क्षुधाजनकौषधवटी । अजीर्णादि- रोगनाशकगुडिका । यथा, -- “रसायो गन्धकाभ्राणि त्र्युषणं त्रिफला वचा । यमानी शतपुष्पा च चविका जीरकद्वयम् ॥ प्रत्येकं पलमेषान्तु घण्टकणपुनर्नवा । माणकं ग्रन्थिकञ्चेन्द्रकेशराजसुदर्शनाः ॥ दण्डोत्पला त्रिवृद्दन्ती जामातृरक्तचन्दनम् । भृङ्गापामार्गकुलका मण्डूकञ्च पलार्द्धकम् ॥ आर्द्रकस्वरसेनाथ गुडिकां संप्रकल्पयेत् । वदरास्थिसमाञ्चैषां भक्षयित्वा पिबेदनु ॥ वारिभक्तं जलञ्चैव प्रातरुत्थाय मानवः । वटी क्षुधावती नाम सर्व्वाजीर्णविनाशिनी ॥ अग्निञ्च कुरुते दीप्तं भस्मकञ्च नियच्छति । अम्लपित्तञ्च शूलञ्च परिणामकृतञ्च यत् ॥ तत्सर्व्वं शमयत्याशु भास्करस्तिमिरं यथा । मधुरं वर्ज्जयेदत्र विशेषात् क्षीरशर्करे” ॥ इति भैषज्यरत्नावल्यामम्लपितचिकित्सा ॥ तस्याः स्वल्पनृहद्भेदौ तत्रैव द्रष्टव्यौ ॥ * ॥ क्षुधायुक्ते त्रि ॥ (क्षुधाजनकापरौषधम् । यथा, -- “सप्त पञ्चचतुर्भागाष्टङ्गणक्षारकद्वये । त्रयस्त्रयः पदूनाञ्च द्वौ द्वौ मरिचचित्रयोः ॥ शुण्ठीलवङ्गयोर्द्वौद्वावस्नयोगेन भावयेत् । वटीङ्कोलप्रमाणेन कारयेद्भिषजां वरः ॥ आमशूलमम्लपित्तं पित्तशूलं विशेषतः । दुर्नामग्रहणीमुग्रा मजीर्णानि विनाशयेत् ॥ नाम्न क्षुधावती ह्येषा वह्निदेवेन निर्म्मिता । [] अस्याः प्रसादान्मन्दाग्निर्भवेद्दावानलो नरः” ॥ इति चिकित्सारत्ननिधौ मन्दाग्न्यधिकारे ॥)
📄 मूल मुद्रित पृष्ठ (2-248-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।