क्षुधावत् त्रि० क्षुधा--अस्त्यस्य क्षुधा साध्यतयाऽस्त्यस्याः वा मतु- प् मस्य वः । १ क्षुधायुक्ते स्त्रियां ङीप् । भैषज्यरत्राव- ल्युक्ते २ गुटिकाभेदे स्त्री “रमाद्योगन्धकाभ्राणि त्र्युषण त्रिफला वचा । यमानी शतपुष्पा च चविका जीरकद्व- यम् । प्रत्येकं पलमेषान्तु घण्टाकर्णा पुनर्णवा । माणकं [] ग्रन्थिकञ्चेन्द्रकेशराजसुदर्शनाः । दण्डोत्पला त्रिवृद्दन्ती जामावृरक्तचन्दनम् । भृङ्गापामार्गकुलका मण्डूकञ्च पलार्द्धकम् । वृर्द्रकस्य रसेनाथ गुडिकां संप्रकल्पयेत् । वदरास्थिसमाञ्चैतां भक्षयित्वा पिबेदनु । वारि भक्तं ज- लञ्चैव प्रातरुत्थाय मानवः । वटी क्षुधावती नाम सर्वाजीर्णविनाशिनी । अग्निञ्च कुरुते दीप्तं भस्मकञ्च नियच्छति । अम्लपित्तञ्च शूलञ्च परिणामकृतञ्च यत् । तत् सर्वं शमयत्याशु भास्करस्तिमिरं यथा । मसूरं वर्ज्जयेदत्र विशेषात् क्षीरशर्क्करे” ।
📄 मूल मुद्रित पृष्ठ (2385-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।