क्षेमङ्करी, स्त्री, (क्षेभङ्कर + स्त्रियां ङीप् ।) देवी- विशेषः । यथा, -- “क्षेमान् देवेषु सा देवी कृत्वा दैत्यपतेः क्षयम् । क्षेमङ्करी शिवेनोक्ता पूज्या लोके भविष्यसि ॥ अनेनैव तु रूपेण विद्याष्टकसमन्विता । एका वा नगरान्तस्था पूजिता स्थापिता शुभा ॥ प्रासादे पटकुड्ये वा पुस्तके जलवह्रिगा । निस्त्रिंशे पूजयेत् क्षेमां सर्व्वकामफलप्रदाम् ॥ दमनी पदमाला च श्रीघोणा वज्रशासना । अस्त्रं प्रत्यङ्गिरादेव्याः पूजयेत् समुदाहृता । एताभिः स्थापनं कार्य्यं शिवासनसमानुगम् ॥” इति देवीपुराणे क्षेमङ्करीप्रादुर्भावः ४७ अध्यायः ॥ शङ्खचिल्ली । सा च भगवत्या मूर्त्तिः । तस्या नमस्कारमन्त्रः । यथा, -- “कुङ्कुमारुणसर्व्वाङ्गि ! कुन्देन्दुधवलानने ! । मत्स्यमांसप्रिये देवि ! क्षेमङ्करि ! नमोऽस्तु ते ॥” अपि च । “कृशोदरि महाचण्डे ! मुक्तकेशि ! बलिप्रिये ! । कुलाचारप्रसन्नास्ये नमस्ते शङ्करप्रिये ! ॥” इति तन्त्रम् ॥
📄 मूल मुद्रित पृष्ठ (2-262-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।