खञ्ज त्रि० खजि गतिवैकल्ये अच् । (खोंडा) एकपाद- विलले । तस्य लक्षणादिकं भावप्र० उक्तं यथा “वायुः कट्याश्रितः सकथ्नः कण्डरामाक्षिपेत् यदा । खञ्जस्तदा भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोर्बवात् । सक्थ्नः कट्यादि- [] गुल्फस्य, कण्डरां कक्षास्नायुम् आक्षिपेत् गमनादौ कम्पयेत् । बधात् गमनादिक्रियाघातात्” । तथाच एक- पादविकलत्वे खञ्जः द्विपादविकलत्वे पङ्कुरिति भेदः । तस्यैव भेदः कलापखञ्जः तल्लक्षणं तत्रोक्तं यथा “कम्पते गमनारम्भे खञ्जन्निव चलक्ष्यते । कलापखञ्जन्तं विद्या- न्मुक्तसन्धिप्रबन्धनम् । गमनारम्भे कम्पते । एतस्य खञ्जादयमेव भेदः कलापखञ्ज इति शास्त्रे रूढा संज्ञा न तु यौगिकी” । तस्य कर्मविशेषविपाकत्वम् शातातपेनोक्तं यथा “हरिणे निहते खञ्जः शृगाले तु विपादकः” । विपादकः पादद्वयगतिशून्यः पङ्गुरित्यर्थः । “काणं वाप्यथ वा खञ्जमन्यं वापि तथाविधम् । तथ्येनापि शपन् दाप्यो- दण्डं कार्षापणावरम्” मनुः तस्य दैवपैत्रकर्मकरणकाले- ऽपसार्य्यतामाह” मनुः “खञ्जो वा यदि काणोदातुः प्रेष्योऽपि वा भेवत् । हीनातिरिक्तगात्रो वा तमप्यप- नयेत्ततः” जन्मतः खञ्जत्वे सुश्रुतेन कारणमुक्तं यथा “दौहदविमाननाच्चकुब्जं कुणिं खञ्जं जडं वामनं विकृ- ताक्षमनक्षं वा नारी सुतं जनयति” । स्वार्थे क ण्वुल् वा । खञ्जक तत्रार्थे हेम० । अस्य कडारादिपाठात् वा पूर्वनिपातः खञ्जबाहुः कलापखञ्ज इत्यादि ।
📄 मूल मुद्रित पृष्ठ (2456-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।