🕉️ 19 November 2026, Thursday · 08:33:40 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

खगगति
khagagati
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
खगगति स्त्री० ६ त० । पक्षिणां गमने तद्भेदाश्च भा० क० ४१ अ० दर्शिताः यथा “शतगेकञ्च पातानां पतितास्मि न संशयः । शतयोजन- मेकैकं विचित्रं विविधं तथा ॥ उड्डीनमवडीनञ्च प्रडीनं डीनमेव च । निडीनमथ सण्डीनं तिर्यक्डीन गतानि च । विडीनं परिडीनञ्च पराडीनं सुडीन- कम् । अभिडीनः महाडीनं निर्डीनमतिडीनकम् ॥ अवडीनं प्रडीनञ्च संडीनं डीनडीनकम् । संडीनो- ड्डीनडीनञ्च पुनर्डीनविडीनकम् ॥ सम्पात समु- [] ड्डीनञ्च ततोन्यद्व्यतिरिक्तकम् । गतागतं प्रतिगतं बहुधा निकुलीनकाः” ॥ विवृतमेतत् नीलकण्ठेन यथा “पातानां शतमेकं गणयति उङ्डीनमित्यादिना “उडडीन १ मूर्द्धगमनमवडीन २ मधोगतिः । प्रडीनं ३ सर्वतो यानं डीनं ४ गमनमात्रकम् । निडीनं ५ शनकैर्यानं संडी- नं ६ ललितं गतम् । तिर्यग्डीनं गतं प्राहुस्तिरःप्रचरणं बुधाः । तान्याशाभेदभिन्नानि चत्वारि प्रतिजानते । तानि (तिर्यग्डीनानि ४) १० । विडम्बितं विडीनं ११ स्यात्परिडी- नन्तु १२ सर्वतः । पश्चाद्गतः पराडीनं १३ स्वर्गगन्तु सुडीन- कम् १४ । आभिमुख्येन गमनमभिडीनं १५ प्रचक्षते । यानं महाडीन १६ माहुः पवित्रामूर्जितां गतिम् । निर्डीनं १७ निश्चलं यानं प्रचण्डमतिडीनकर १८” । (विड म्बतं मल्लवदुड्डीयोड्डीयगमनम्) । अवरोहो- वडीनं १९ स्यात् प्रडीनं २० चित्रमुच्यते । गत्या ललितया पूर्वमुपक्रम्य समन्ततः । परिक्रम्य प्रपतनं संडीनं २१ डीनडीनकम् २२ । (समततः प्रपतनं, संडीनं परिक्रम्य प्रपतनं डीनडीनकमित्यन्वयः) संडीनोड्डीनडीनं स्यात्तदेवोर्द्धप्रकल्पनात् २३ । गतौ गत्यन्तरेद्भेदो भवेड्- डीनविडीनकम् २४ ॥ क्षणात् संगत्य निष्क्रम्य पक्षसंपात- २४ मुच्यते । ऊर्द्ध्वावोगतिसंभेदः समुड्डीनं २५ प्रचक्षते । संकल्प्य पक्षगमनमुच्यते व्यतिरिक्तकम् २६ । षड्विंशति- रमी भेदाः पातानामिह दर्शिताः । महाडीनं विहा- यैषां पातानां त्रिविधा गतिः ७५ । गतन्तत्र यथोद्दिष्ट- मागतं पुनरागमः । प्रत्यावृत्तिः प्रतिगतिरिति षट्सप्ततिः ७६ स्मृताः । (गतागतप्रतिगतिभेदाद्गतित्रे- विध्यम्) । तेषां निपाताः कथ्यन्ते प्रत्येकं पञ्चविं- शतिः” १०१ । (निकुलीनकाः निपाताः) । २ ग्रहाणां गतौ च । तत्र ग्रहभेदे गतिभेदाः सृ० सि० सकारणम् उक्तायथा “अदृश्यरूपाः कालस्य मूर्त्तयो भगखाश्रिताः । शीघ्र- मन्दोच्चपाताख्या ग्रहाणां गतिहेतवः” ॥ तद्वातर- श्मिभिर्बद्धास्तैः सव्येतरपाणिभिः । प्राक् पश्चादपकृष्यन्ते यथासन्नं स्वदिड्मुखम् ॥ प्रवहाख्यो मरुत् तांस्तु स्वोच्चाभिमुखमीरयेत् । पूर्वापरापक्वष्टास्ते गतिं यान्ति पृथग्विधाम् ॥ ग्रहात् प्राग्भगणार्द्धस्थः प्राङ्मुखं कर्षति ग्रहम् । उच्चसञ्ज्ञोऽपरार्द्धस्थस्तद्वत् पश्चान्षुखं ग्रहम् ॥ स्वोच्चापकृष्टा भगणैः प्राङ्मुखं यान्ति यद्- ग्रहाः । तत् तेषु धनमित्युक्तमृणं पश्चान्मुखेषु तु ॥ [] दक्षिणोत्तरतोऽप्येवं पातो राहुः स्वरंहसा । विक्षि- पत्येष विक्षेपं चन्द्रादीनामपक्रमात् ॥ उत्तराभिमुखं पातो विक्षिपत्यपरार्द्धगः । ग्रहः प्राग्भगणार्धस्थो याम्यायामपकर्षति ॥ बुधभार्गवयोः शीघ्रात् तद्वत् घातो यदा स्थितः । तच्छीघ्राकर्षणात् तौ तु विक्षिप्येते यथोक्तवत् ॥ महत्त्वान्मण्डलस्यार्कः स्वल्पमेवाष- कृयते । मण्डलाल्पतया चन्द्रस्ततो बह्वपकृष्यते ॥ भौमादयोऽल्पमूर्त्तित्वाच्छीघ्रमन्दीच्चसञ्ज्ञकैः । दैवतैर- पकृव्यन्ते सुदूरमतिवेगिताः ॥ अतो धनर्णं सुमहत् तेषां गतिवशाद्भवेत् । आकृष्यमाणास्तैरेवं व्य म्नि यान्त्य- निलाहताः ॥ वक्रानुवक्रा कुटिला मन्दा मन्दतरा समा । तथा शीघ्रतरा शीघ्रा ग्रहाणामष्टधा गतिः ॥ तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा । ऋज्वीति पञ्चधा ज्ञेया या वक्रा सानुवक्रगा” सू० सि० ॥ वक्रा
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें