खर्ज्जूरी, स्त्री, (खर्ज्जूर + गौरादित्वात् ङीष् ।) वनखर्ज्जूरः । इत्यमरः । २ । ४ । १७० ॥ खर्ज्जूर- वृक्षः । खेजरगाछ इति भाषा । तत्पर्य्यायः । खरस्कन्धा २ दुव्प्रधर्षा ३ दुरारुहा ४ निश्रेणी ५ कषायी ६ यवनेष्टा ७ हरप्रिया ८ । अस्या गुणाः । कषायत्वम् । पक्वे गौल्यत्वम् । कषायि- कत्वम् । पित्तकृमिनाशित्वम् । बृंहणत्वम् । कफ- शुक्रवृद्धिकारित्वञ्च । इति राजनिर्घण्टः ॥ तत्- पर्य्यायगुणाः । “भूमिखर्ज्जूरिका स्वाद्बी दुरारोहा मृदुच्छदा । तथा स्कन्धफला काककर्कटी स्वादुमस्तका ॥ * ॥ पिण्डखर्ज्जूरिका त्वन्या सा देशे पश्चिमे भवेत् । खर्ज्जूरी गोस्तनाकारा पराद्द्वीपादिहागता ॥ जायन्ते पश्चिमे देशे सा च्छोहारेति कीर्त्त्यते । खर्ज्जूरीत्रितयं शीतं मधुरं रसपाकयोः ॥ स्निग्धं रुचिकरं हृद्यं क्षतक्षयहरं गुरु । तर्पणं रक्तपित्तघ्नं पुष्टिविष्टम्भशुक्रदम् ॥ कोष्ठमारुतकृद्बल्यं वाह्यवातकफापहम् । ज्वराभिघातक्षुत्तृष्णाकासश्वासनिवारकम् ॥ मदमूर्च्छामरुत्पित्तमद्योद्भूतगदान्तकृत् । महतीभ्यां गुणैरल्पा स्वल्पा खर्ज्जूरिका स्मृता ॥ * ॥ खर्ज्जूरीतरुतोयन्तु मदपित्तकरं भवेत् । वातश्लेष्महरं रुच्यं दीपनं बलशुक्रकृत् ॥ * ॥ सुनेपाली तु मृदुला बलिहीनफला च सा । सुनेपाली श्रमभ्रान्तिदाहमूर्च्छास्रपित्तहृत् ॥” इति भावप्रकाशः ॥
📄 मूल मुद्रित पृष्ठ (2-278-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।