खुड, इ ङ खञ्जे । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-अकं-सेट्-इदित् ।) पञ्चमस्वरी । खञ्जः खोटनम् । इ, कर्म्मणि खुण्ड्यते । ङ, खुण्डते खोडः । इति दुर्गादासः ॥
खुड, क भेदे । इति कविकल्पद्रुमः ॥ (चुरां-परं-सकं-सेट् । पाक्षिक इदित् ।) द्वौ पञ्चमस्वरिणौ । क, खोडयति । द्वितीय आद्यस्वरीति कातन्त्राद्याः । स्वमते तु द्वितीयस्याद्यस्वरित्वे पूर्व्वोऽपीदनुवन्धः स्यात् । पञ्चमस्वरित्वे तु स्वजातीयस्य पुनःपाठात् पूर्व्वो नेदनुबन्धः । खुण्डयति । खण्डयतीति प्रयोगस्तु खडि ङ् मथीत्यस्मात् घञि खण्डं करोतीति ञौ साध्यम् । तस्य भेदवाचित्वन्तु धातूनामनेकार्थ- त्वात् । इति दुर्गादासः ॥
खुड, इ क भेदे । इति कविकल्पद्रुमः ॥ (चुरां-परं-सकं-सेट् । पाक्षिक इदित् ।) द्वौ पञ्चमस्वरिणौ । क, खोडयति । द्वितीय आद्यस्वरीति कातन्त्राद्याः । स्वमते तु द्वितीयस्याद्यस्वरित्वे पूर्व्वोऽपीदनुवन्धः स्यात् । पञ्चमस्वरित्वे तु स्वजातीयस्य पुनःपाठात् पूर्व्वो नेदनुबन्धः । खुण्डयति । खण्डयतीति प्रयोगस्तु खडि ङ् मथीत्यस्मात् घञि खण्डं करोतीति ञौ साध्यम् । तस्य भेदवाचित्वन्तु धातूनामनेकार्थ- त्वात् । इति दुर्गादासः ॥
📄 मूल मुद्रित पृष्ठ (2-283-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।