गण्डकी, स्त्री, (गण्डक + स्त्रियां जातौ ङीष् ।) स्वनाम- ख्याता नदी । इति मेदिनी । ८२ ॥ यथा, स्मृतिः । “गण्डक्याश्चैकदेशे च शालग्रामस्थलं स्मृतम् । पाषाणं तद्भवं यत्तत् शालग्राममिति स्मृतम् ॥” तत्र शालग्रामोत्पत्तिकारणं यथा, -- “गण्डक्यापि पुरा तप्तं वर्षाणामयुतं विधेः । शीर्णपर्णाशनं कृत्वा वायुभक्षाप्यनन्तरम् ॥ दिव्यं वर्षशतं तेपे विष्णुं चिन्तयती तदा । ततः साक्षाज्जगन्नाथो हरिर्भक्तजनप्रियः ॥ उवाच मधुरं वाक्यं प्रीतः प्रणतवत्सलः । गण्डकि ! त्वां प्रसन्नोऽस्मि तपसा विस्मितोऽनघे ! ॥ अनवच्छिन्नया भक्त्या वरं वरय मुव्रते ! । किं देयं तद्वदस्वाशु प्रीतोऽस्मि वरवर्णिनि ! ॥ [] गण्डक्यपि पुरो दृष्ट्वा शङ्खचक्रगदाधरम् । दण्डवत् प्रणता भूत्वा ततः स्तोतुं प्रचक्रमे ॥ अहो देव ! मया दृष्टो दुर्द्दर्शो योगिनामपि । त्वया सर्व्वमिदं सृष्टं जगत् स्थावरजङ्गमम् ॥ तदनु त्वं प्रविष्टोऽसि पुरुषस्तेन त्तोच्यते । त्वल्लीलोन्मीलिते विश्वे कः स्वतन्त्रोऽस्ति वै पुमान् ॥ अनाद्यन्तमपर्य्यन्तं यद्ब्रह्म श्रुतिबोधितम् । तदेव त्वं महाविष्णो ! यस्त्वां वेद स वेदवित् ॥ तवैवाद्या जगन्माता या शक्तिः परमा स्मृता । तां योगमायां प्रकृतिप्रधानमिति वक्ष्यते ॥ निर्गुणः पुरुषोऽव्यक्तश्चित्स्वरूपी निरञ्जनः । आनन्दरूपः शुद्धात्मा ह्यकर्त्ता निर्विकारकः ॥ स्वां योगमायामाविश्य कर्त्तृत्वं प्राप्तवानसि । प्रकृत्या सृज्यमानेऽस्मिन् द्रष्टा साक्षी निगद्यते ॥ प्रकृतेस्त्रिगुणैरस्मिन् सृज्यमानेऽपि नान्यथा । सान्निध्यमात्रतो देव ! त्वयि स्पुरति कारणे ॥ स्फटिके हि यथा स्वच्छे जवाकुसुमरागतः । प्रकाशते त्वत्प्रकाशात् ज्योतीरूप ! नतास्मि ते ॥ ब्रह्मादयोऽपि कवयो न विन्दन्ति ययार्थतः । तत् कथं वेद्म्यहं मूढा तव रूपं निरञ्जनम् ॥ मूढस्य जगतो मध्ये स्थिता किञ्चिदजानती । त्वया धृष्टा कृता चास्मि योग्यायोग्यमविन्दती ॥ तेन लोके महत्त्वञ्च त्वत्प्रसादेन चेच्छती । यदयाचे तत्तपोदार ! तन्मे दातुं त्वमहसि ॥ दयालुरसि दीनेषु नेति मां न वद प्रभो ! । ततः प्रोवाच भगवान् देवि ! यद्यत्त्वमिच्छसि ॥ तद्याचय वरारोहे ! अदेयमपि सर्वथा । यद्दुर्लभं मनुष्याणां शीघ्रं याचय मां प्रति ॥ मद्दर्शनमनुप्राप्य कोवाऽपूर्णमनोरथः । ततो हिमांशो ! सा देवी गण्डकी लोकतारिणी ॥ प्राञ्जलिः प्रणता भूत्वा मधुरं वाक्यमब्रवीत् । यदि देव ! प्रसन्नोऽसि देयो मे वाञ्छितो वरः ॥ मम गर्भगतो भूत्वा विष्णो ! मत्पुत्त्रतां व्रज । ततः प्रसन्नो भगवान् चिन्तयामास गोपते ! ॥ किं याचितं निम्नगया नित्यं मत्सङ्गलुब्धया । दास्यामि याचितं येन लोकानां भवमोक्षणम् ॥ इत्येवं कृपया देवो निश्चित्य मनसा स्वयम् । गण्डकीमवदत् प्रीतः शृणु देवि ! वचो मम ॥ शालग्रामशिलारूपी तव गर्भगतः सदा । तिष्ठामि तव पुत्त्रत्वे भक्तानुग्रहकारणात् ॥ मत्सान्निध्यात् नदीनां त्वमतिश्रेष्ठा भविष्यसि । दर्शनात् स्पर्शनात् स्नानात् पानाच्चैवावगाहनात् हरिष्यसि महापापं वाङ्मनःकायसम्भवम् । यः स्नास्यति विधानेन देवर्षिपितृतर्पकः ॥ तर्पयेत् स्वपितॄंश्चापि तारयित्वा दिवं नयेत् । स्वयं मम प्रियो भूत्वा ब्रह्मलोकं गमिष्यति ॥ यदि त्वय्युत्सृजेत् प्राणान् मम कर्म्मपरायणः । सोऽपि याति परं स्थानं यत्र गत्वा न शोचति ॥ एवं दत्त्वा वरान देव्यै तत्रैवान्तरधीयत । ततः प्रभृति तिष्ठामः क्षेत्रेऽस्मिन् शशलाञ्छन ! ॥” इति वराहपुराणे सोमेश्वरादिलिङ्गमहिमा- ऽविमुक्तक्षेत्रत्रिवेण्यादिमहिमनामाध्यायः ॥
📄 मूल मुद्रित पृष्ठ (2-296-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।