गन्धकाली, स्त्री, (गन्धं प्रशस्तदूरवाहिगात्र- सौरभं कलयतीति । कल् + णिच् अच् ङीष्च । यद्वा, गन्धवती काली । मध्यपदलोपि- समासः ।) व्यासमाता । इति शब्दरत्नावली ॥ (इयं हि दाशराजकन्या पुरा बाल्यसमये मत्स्य- गन्धा कालीत्येतन्नाम्ना ख्यातासीत् । ततः कदाचित् नदीपरपारं जिगमिषुणा मुनि- प्रवरपराशरेण सङ्गता तस्यैव ऋषेर्वरप्रभा- वेन निजगात्रे पद्मपुष्पवत् सौरभमवाप्य ततः प्रभृति पद्मगन्धा गन्धकालीति नाम्ना [] च विश्रुताऽभवत् । परं तस्यामेव कन्यायां तदा पराशरौरसात् कानीनपुत्त्रो महर्षिर्व्यासः सञ्जातः । ततो गच्छति काले महात्मनां भीष्मेण राज्यं दारपरिग्रहञ्च न करिष्या- मीति निदारुणं प्रतिश्रुत्य दाशराजसकाशात् समानीता भुवनविश्रुता सा पद्मगन्धाढ्या गन्ध- काली तत्कामुकाय पित्रे शान्तवे समर्पिता । एतद्विवरणं महाभारते १ । सम्भवे । ९९-१०० । अध्याययोर्विशेषतो दर्शनीयम् ॥ अस्या हेतो- रेव नरपतिरुग्रायुधः समरे भीष्मेणे निहतः । यथा, हरिवंशे । २० । ४७-५० । “स चाप्युग्रायुधस्तात ! दुर्ब्बुद्धिरभवत्तदा । प्रदीप्तचक्रो बलवान् नीपान्तकरणोऽभवत् ॥ स दर्पपूर्णो हत्वाजौ नीपानन्यांश्च पार्थिवान् । पितर्य्युपरते मह्यं श्रावयामास किल्विषम् ॥ माममात्यैः परिवृतं शयानं धरणीतले । उग्रायुधस्य राजेन्द्र ! दूतोऽभ्येत्य वचोऽब्रवीत् ॥ अद्यत्वं जननीं भीष्म ! गन्धकालीं यशस्विनीम् । स्त्रीरत्नं मम भार्य्यार्थे प्रयच्छ कुरुनन्दन ! ॥” ईदृशं जुगुप्सितवाक्यं दूतमुखादाकर्ण्यामित- प्रतापो महात्मा भीष्मः अशौचान्ते तं दुरा- त्मानं समराङ्गणे समाहूय निपात्य च राज्ञे काम्पिल्याय तत् पैतृकं राज्यं समर्पयत् । अस्मि- न्नेवाध्याये एतत् सर्व्वं वृत्तं सविशेषं द्रष्टव्यम् ॥)
📄 मूल मुद्रित पृष्ठ (2-301-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।