🕉️ 22 November 2026, Sunday · 06:39:08 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गंधमादन
gaṃdhamādana
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
गंधमादन १ संज्ञा पुं॰ [सं॰ गन्धमादन]
१. एक पर्वत का नाम । विशेष—पुराणानुसार यह पर्वत इलावृत ओर भद्राश्व खंड़ के बीच में है । नील निषध पर्वत तक इसका विस्तार है । देवी भागवत के अनुसार यह भगवतीकामुकी का पीठस्थान है ।
२. रामायण के अनुसार राम की सेना का प्रधान बंदर ।
३. भौंरा ।
४. एक सुगंधित द्रव्य ।
५. गंधक ।
६. रावण का एक नाम (को॰) ।
७. सुगंधित ओषधियों से युक्त गंधमादन पर्वत का जंगल (को॰) ।
गंधमादन २ गंध से उन्मत्त करनेवाला [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गन्ध—मादन m. ‘intoxicating with fragrance’ = -मोदन, L.
‘delighting in fragrances’, a large black bee, L.
N. of a mountain (forming the division between Ilāvṛta and Bhadrāśva, to the east of Meru, renowned for its fragrant forests), MBh.; Hariv. &c. (once गन्ध-मदन, Hcat. i, 6, 24)
N. of Rāvaṇa, MBh. ii, 410
of a monkey (attendant of Rāma), MBh. iii, 16273; R. i, 16, 13
iv; v, 73, 26
vi
गन्ध—मादन n. the forest on the mountain Gandha-mādana, L.
📄 मूल मुद्रित पृष्ठ (345,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
गन्धमादन पुंन० गन्धन मादयति मादि--ल्यु । १ पर्वतभेदे स च पर्वतः रोमकपत्तनात् उदक्, नीलनिषधपर्य्यन्तदीर्घः तस्य जलधेश्च मध्ये केतुमासं वर्षम् । एवं निषधनील- माल्यवद्गन्धमादनैरावृतमिलावृतं नवमं वर्षम् मूलवा- क्यमिलावृतशब्दे ९८५ पृ० दृश्यम् । “गन्धमादन- शृङ्गेषु पुरुथः सह राक्षसैः” । “गन्धमादनपार्श्वे तु परेत्वपरगण्डिकाः” भा० भी० ६ अ० । “ततः किंपुरुषावासं सिद्धचारणसेवितम् । ददृशुर्हृष्टरोमाणः पर्वतं गन्धमादनम्” भा० व० १५८ अ० । “तथैवा- परेण पूर्वेण च माल्यवद्गन्धमादनौ नीलनिषध यतौ” भाग० ५ । १६ । १०२ । एवं सर्वत्र पुंस्त्वम् क्वचित् क्लीवत्वमपि । “यस्य चोपवनं बाह्यं गन्धवत् गन्धमादनम्” कुमा० । “अत्र गन्धवत्गन्धमादनम्” इति आगन्तुकः पाठः । प्राचीनपाठस्तु “सुगन्धिर्गन्धमादनः” इति पुं- लिङ्गान्तः । अतएव क्षीरस्वामिना “गन्धमादनमन्ये चेत्यत्र गन्धेत मादयतोति गन्धमादनः” इति व्याख्याय प्रयोगे च पुंलिङ्गता दृश्यत इत्याशयेनोक्तं “सुगन्धि- र्गन्धमादन इति” कालिदासः इति” मल्लिना० । स च मेरोर्दक्षिणस्थविष्कम्भरूपः यथाह विष्णुपु० “इलावृतमनुक्रम्य “चत्वार उपपर्वताः” । “विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः । पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे भागे सुपार्श्वश्चोत्तरे स्मृतः” । तत्र च केतुवृक्षो जम्बुः । यथाह तत्रैव “कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च” तत्र वनं नन्दनं, चैत्ररथं, गन्धमादनाख्यं, वा कल्पभेदात् व्यवस्थितं तत्र विष्णुपु०० “वतं चैत्ररथं पूर्वं दक्षिणे गन्ध- मादनम् । वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम्” इत्युक्तेः गन्धमादनाख्यवनवत्त्वं तस्य । “तान् विष्कम्भान् गिरीचुपक्रम्य” भाग० ५ । १६ । देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वेभ्राजकं सर्वतोभद्रमिति” । चैत्ररथनवक्तोक्ता । सि० शि० “वनं तथा चैत्ररथं विचित्रं तेप्वप्सरीनन्दननन्दनञ्च । धृत्याह्वयं यद्धृतिकृत् सुराणां भ्राजष्णुवैभ्राजमिति प्रसिद्धम्” इत्युक्तेर्नन्दनवनवत्त्वम् । [] “अरुणोदं महाभद्रं ससितोदं समानसम् । सरांस्ये- तानि चत्वारि देवभोग्यानि सर्वदा” विष्णुपु० उक्ते- स्तत्र महाभद्रं सरः । “सरांस्यथैतेष्वरुणञ्च मानसम् महाह्रदं श्वेतजलं यथाक्रममिति” सि० शि० उक्तेस्तत्र मानसं सरः । सरसां कल्पभेदान्नामभेदः । २ तद्वासिनि रामसैन्यस्थवानरभेदे च “गन्धमादनवासी च प्रथितो गन्धमादनः । कोटीशतसहस्राणि हरीणां समकर्षत” भा० व० २८ अ० । तत्पर्वतस्थे ३ वनभेदे न० उदा- हृतविष्णुपु० वाक्ये दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (2526-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
गन्धमादनं, क्ली पुं, (गन्धैः आत्मोपरिसञ्जातौषधी- विशेषसौरभैः मादयति सन्निहितस्थानिति । मद् + णिच् + कर्त्तरि ल्युः । माद्यतेऽनेन इति णिच् ल्युट् वा ।) पर्व्वतविशेषः । इत्यमरः । २ । ३ । ३ ॥ अयं इलावृतभद्राश्ववर्षयोः सीमा- पर्व्वतः । अस्य विस्तारः नीलनिषधपर्व्वत- पर्य्यन्तः । इति श्रीभागवतम् ॥ (तथा च महा- भारते । २ । १० । ३० । “मलयो दर्द्द रश्चैव महेन्द्रो गन्धमादनः । इन्द्रकीलः सुनाभश्च तथा दिव्यौ च पर्व्वतौ ॥” अस्य गिरेरधिष्टातृदेवोऽपि एतन्नाम्ना विश्रुतः । यथा, तत्रैवाध्याये । २८ श्लोके । “द्रुमः किम्पुरषेशश्च उपास्ते धनदेश्वरम् । राक्षसाधिपतिश्चैव महेन्द्रो गन्धमादनः ॥” अयमेव पर्व्वतो भगवत्याः पीठस्थानविशेषः । यथा, देवीभागवते । ७ । ३० । ५६ । “प्रयागे ललिता प्रोक्ता कामुकी गन्धमादने ॥”)
गन्धमादनः, पुं, (गन्धेन पुष्पसौरभेण मादयत्या- त्मानमिति । गन्ध + मद् + णिच् + ल्युः । यद्वा गन्धेन माद्यति इति । मद् + स्वार्थे णिच् + ल्युः ।) भ्रमरः । वानरविशेषः । (यथा, रामायणे ४ । २५ । ३३ । “गयो गवाक्षो गवयः शरभो गन्धमादनः । मैन्दश्च द्विविदश्चैव हनूमान् जाम्बवांस्तथा ॥”) गन्धकः । इति मेदिनी ॥ ने । २३४ ॥
📄 मूल मुद्रित पृष्ठ (2-303-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "गंधमादन" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें