गन्धर्वलोक पु० ६ त० । गुह्यकलोकोपरिस्थे विद्याधरलोकस्या- धानिविष्टे स्थाने । तत्स्थानकथा तत्प्राप्तिपुण्यानि च गुह्यकलोकोक्त्यनन्तरं काशीख० दर्शितानि यथा । “गान्धर्व्वस्त्वेष लोकोऽमी गन्धर्वाश्च शुभप्रदाः । देवानां गायनाह्येते चारणाः स्तुतिपाठकाः । गीतज्ञा अभिगीतेन तोषयन्ति नराधिपान् । स्तुवन्ति च धनाद्यांश्च धनलोभेन माहिताः । राज्ञां प्रसादल- ब्ध्वानि सुवासांसि धनान्यपि । द्रव्याण्यपि सुगन्धीनि कर्पूरादीन्यनेकशः । व्राह्मणेभ्यः प्रयच्छन्ति गीतिं गायन्त्यहर्निशम् । स्तुतावेव मनस्तेषां नाट्यशास्त्रे कृत- श्रमाः । तेन पुण्येन गन्धर्वलोकस्तेषा विशिष्यते । ब्राह्मणास्तोषिता यद्वै गीतिविद्यार्जितैर्धनैः । गीत विद्याप्रभावेन देवर्षिर्नारदो महान् । मान्यो वैष्णव लोके वै श्रीशम्भोश्चातिवल्लभः । तुम्बुरुनारदश्चीभौ देवानामपि दुर्ल्लभौ । नादरूपी शिवः साक्षान्नादविद्या- विदां हितः । यदि गीतं क्वचिद्गातं श्रीमद्धरिहरा- त्मकम् । मोक्षन्तु तत्फलं प्राहुः सान्निध्यमथ वा तयोः । [] गीतज्ञो यदि गीतेन नाप्नोति परमं पदम् । रुद्रस्यानुच रोभूत्वा तेनैव सह मोदते । अस्मिल्लोँके सदा कालं स्मृ- तिरेषा प्रगीयते । तद्गीतमालया पूज्यौ देवौ हरिहरौ सदा । इति शृण्वन् क्षणात् प्राप पुरमन्यन्मनोहरम् । शिवशर्माथ पप्रच्छ किंसंज्ञं नगरन्त्विदम् । गणाबूचतुः । असौ विद्याधरो लोको नानाविद्याविशारदाः ।”
📄 मूल मुद्रित पृष्ठ (2529-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।