गन्धवती, स्त्री, (गन्धो विद्यतेऽस्याः । गन्ध + मतुप् । मस्य वत्वे स्त्रियां ङीप् ।) पृथिवी । (“गन्धवती पृथ्वीरूपा ।” इति काशीखण्डे । २९ । ४९ श्लोकस्य टीकायाम् ॥) वायुपुरी । (यथा, काशीखण्डे । १३ । १ । “इमां गन्धवतीं पुण्यां पुरीं वायोर्विलोकय । वारुण्या उत्तरे भागे महाभाग्यनिधे द्विज ! ॥”) व्यासमाता । (इयं हि पूर्व्वं मत्स्यगन्धा आसीत् पश्चात् प्रसन्नात् पराशरात् लब्धवरा सदगन्ध् विशिष्टा गन्धवतीति प्रसिद्धा जाता । यथा, महाभारते । १ । ६३ । ७९--८० । “एवमुक्ता वरं वव्रे गात्रसौगन्धमुत्तमम् । [] स चास्यै भगवान् प्रादान्मनसः काङ्क्षितं प्रभुः । ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता ॥ जगाम सह संसर्गमृषिणाद्भुतकर्म्मणा । तेन गन्धवतीत्येवं नामास्याः प्रथितं भुवि ॥”) सुरा । इति मेदिनी । ते । १९४ ॥ वनमल्लिका । इति रत्नमाला ॥ मुरानामगन्धद्रव्यम् । इति जटाधरः ॥ (गङ्गा । यथा, काशीखण्डे । २९ । ४९ । “गङ्गा गन्धवती गौरी गन्धर्व्वनगरप्रिया ॥”)
📄 मूल मुद्रित पृष्ठ (2-305-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।