गच्छ पु० गम--सम्प० क्विप् मलोपे तुक् च गतंगतिं छ्यति छो--क । १ वृक्षे त्रिका० । लीलावत्युक्ते श्रेढीव्यवहारे प्रवृत्तगत्यादिक्रियाविरतिकारके २ पदसंज्ञे स्थाने पु० । तज्ज्ञानार्थं तत्राह “श्रेढीफलादुत्तरलोचनघ्नाच्चयार्द्ध्व- वक्त्रान्तरवर्गयुक्तात् । मूलं मुखोनं चयखण्डयुक्तं चयोद्धृतं गच्छमुदाहरन्ति । उदाहरणम् । द्रम्मत्रयं यः प्रथमे- ऽह्नि दत्त्वा दातुं प्रवृत्तोद्विचयेन तेन । शतत्रयं षष्ट्यधिकं द्विजेभ्यो दत्तं कियद्भिर्दिवसैर्वदाशु । न्यासः आदिव० । ३ । चयः । २ । गच्छः । ० । सर्वधनं ३६० । लब्धो गच्छः १८ । अथ द्विगुणोत्तरादिफलानयने करण- सूत्रं सार्द्धवृत्तम् । विषमे गच्छे व्येके गुणकः स्थाप्यः समेऽर्द्धिते वर्गः । गच्छक्षयान्त्यमन्त्याद्व्यस्तं गुणवर्गजं फलं यत्तत् । व्येकं व्येकगुणोद्धृतमादिगुणं स्याद्गुणो- त्तरे गणितम् । उदाहरणम् । पूर्बं वराटकयुगं येन द्विगुणोत्तरं प्रतिज्ञातम् । प्रत्यहमर्थिजनाय स मासे निष्कान् ददाति कति । न्यासः आदिः । २ । चयो- द्विगुणः २ । गच्छः । ३० । लब्धावराटकाः । २१४७८- ६ ४६ । निष्कवराटिकाभिर्भक्ताजाता निष्काः । १०४८- ५७ । द्रम्माः । ९ । पणाः । ९ । काकिण्यौ । २ । वराटकाः । ६ । उदाहरणम् । आदिर्द्विकं सखे! वृद्धिः प्रत्यहं त्रिगुणोत्तरा । गच्छः सप्तदिनं यत्र गणितं तत्र किं वद । न्यासः । आदिः । २ । चयोगुणः ३ । गच्छः । ७ । लब्धं गणितम् । २१८६” शब्दकल्पद्रुमे निर्विसर्गगच्छेत्यस्य विभक्त्यन्तस्य शब्दत्व- कल्पनेनार्थकथनमतीव हास्यास्पदम् गच्छेत्यस्य वि- भक्त्यन्ततया पदत्वेन शब्दत्वाभावात् अन्यथा नाना- विभक्तियोगेन नानाशब्दार्थकथनापत्तेः ।
📄 मूल मुद्रित पृष्ठ (2493,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।