🕉️ 20 November 2026, Friday · 03:19:42 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गजानन
gajānana
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
गणेश के और नाम (1.1.48) एकदन्त · हेरम्ब · लम्बोदर
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
गजानन संज्ञा पुं॰ [सं॰] गणेश का एक नाम ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गजानन m. = ˚ज-मुख, GaṇP.; Siṃhās.
📄 मूल मुद्रित पृष्ठ (342,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
गजानन पु० गजस्याननमाननं यस्य । १ गणेशे अमरः । इभाननशब्दे ९८१ पृ० दृश्यम् । स्कन्दपु० गणेशख० ११ अ० तु अन्यथा तस्य गजाननता वर्णिता तत्र गणेशस्य मस्तक- शून्यतयोत्पत्तौ पुरा शिवच्छिन्नेन कैलासे स्थापितेन गजा- सुरमस्तकेन मुखयोजनं तेन कृतमित्युक्तं यथा “गुरुरुवाच अबतारो यदि धृतः साधुत्राणाय भो विभो! । प्रकाश- याशु वदनं सर्वेषां शोकनाशनम् । नयस्व सर्वदेवाना मानन्दं हृदयं प्रभो! । शिव उवाच । प्रत्युवाच गुरुं पुत्रः पार्वत्या हीनमस्तकः । शिशुरुवाच । महेशाख्येन राज्ञा ते प्रणतौ चरणौ यदा । तदाशीर्या त्वया दत्ता तस्मै राज्ञे गुरो! मुदा । गजयोनौ जनिर्मुक्तिः शिव- हस्तादुदीरिता । तत्सर्वमभवत् तस्य विद्यते चारुम- स्तकः । पूज्यमानं शिवेनास्ते शुण्डादण्डः शुशोभनः । अवतारकरोऽसौ मे गुरोऽस्ति भविता मुखम् । शिवौवाच आश्चर्यपूर्णहृदयो गुरुरूचे पुनः शिशुम् । गुरुरुवाच । भगवन्! विश्वरूपोऽसि त्रिकालज्ञोऽखिलेश्वरः । मया य- दुदितं तस्मै त्वया ज्ञातं यतः प्रभो! । अहमीशस्वरू- पन्ते परिच्छेत्तुं न च क्षमः । श्रुत्वैवं ब्रह्मणः पुत्रो नारदस्तव्र चाव्रवीत् । नारद उवाच । “एवमेवावतीर्णोऽसि हीनमूर्द्धा कथं प्रभो! । अथवा बालरूपम्य छिन्नन्ते केन तच्छिरः । एतन्मे संशयं छिन्धि कृषया परमेश्वर! । शिव उवाच । निपीय नारदीं वाणीमुवाच शिशुरुच्चकैः । शिशुरुवाच । सिन्दूरः कोऽपि [] दैत्यो मे वायुरूपधरोऽच्छिनत् । अष्टमे मासि सम्पूर्णे प्रविश्योमोदरं शिरः । तमिदानीं हनिष्येऽहं गजास्यं साम्प्रतं द्विज! । शिवौवाच । श्रुत्वैवं नारदः प्राह शिशुरूपिणमोश्वरम् । नारदौवाच । अकिञ्चिज्ज्ञा वयं देव! योजनेऽस्य मुखस्य ते । त्वमेव च स्वभावेन मुख- मेतन्नियोजय । शिवौवाच । वदतीत्थं मुनि र्यावत्तावत् स ददृशेऽखिलैः । सर्वावयवसम्पूर्णो गजाननौमासुतः । कीरीटकुण्डलधरो युगवाहुः सुलोचनः । वामदक्षिण- भागे च सिद्धिवृद्धिविराजितः । दृष्ट्वा विनायकं स्कन्द! तथाभूतं निजेच्छया । हर्षेणोत्फुल्लनयना देवाः सर्वे तदाऽब्रुवन् । गजानन इति ख्यातो भवितायं जगत्त्रये” “एवं भाद्रचतुर्थ्यां स अवतीर्ण्णो गजाननः” इति च तत्राध्याये । ६ त० । हस्तिमुखे न० ।
📄 मूल मुद्रित पृष्ठ (2496-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
गजाननः, पुं, (गजस्य हस्तिन आननं मुखमेव आननं यस्य ।) गणेशः । इत्यमरः । १ । १ । ४१ ॥ (यथा, ब्रह्मवैवर्त्ते गणेशखण्डे ६ अध्याये । “शनिदृष्ट्या शिरश्छेदात् गजवक्त्रेण योजितः । गजाननः शिशुस्तेन नियतिः केन बाध्यते ॥” पुराणान्तरे मतभेदोऽपि दृश्यते यथा, स्कान्दे गणेशखण्डे ११ अध्याये । गुरुरुवाच । “अवतारो यदि धृतः साधुत्राणाय भो विभो ! प्रकाशयाशु वदनं सर्व्वेषां शोकनाशनम् ॥ नयस्व सर्व्वदेवानामानन्दं हृदये प्रभो ! । शिव उवाच । प्रत्युवाच गुरुं पुत्त्रः पार्व्वत्या हीनमस्तकः ॥ शिशुरुवाच । महेशाख्येन राज्ञा ते प्रणतौ चरणौ यदा । तदाशीर्या त्वया दत्ता तस्मै राज्ञे गुरो मुदा ॥ गजयोनौ जनिर्मुक्तिः शिवहस्तादुदीरिता । तत् सर्व्वमभवत् तस्य विद्यते चारुमस्तकः ॥ पूज्यमानः शिवेनास्ते शुण्डादण्डः सुशोभनः । अवतारकरोऽसौ मे गुरोऽस्ति भविता मुखम् ॥ शिव उवाच । आश्चर्य्यपूर्णहृदयो गुरुरूचे पुनः शिशुम् ॥ गुरुरुवाच । भगवत ! विश्वरूपोऽसि त्रिकालज्ञोऽखिलेश्वरः । मया यदुदितं तस्मै त्वया ज्ञातं यतः प्रभो ! ॥ अहमीशस्वरूपं ते परिच्छेत्तुं न च क्षमः । श्रुत्वैव ब्रह्मणः पुत्त्रो नारदस्तत्र चाब्रवीत् ॥ नारद उवाच । एवमेवावतीर्णोऽसि हीनमूर्द्धा कथं प्रभो ! । अथवा बालरूपस्य छिन्नं ते केन तच्छिरः ॥ एतन्मे संशयं छिन्धि कृपया परमेश्वर ! । शिव उवाच । निपीय नारदीं वाणीमुवाच शिशुरुच्चकैः ॥ शिशुरुवाच । सिन्दूरः कोऽपि दैत्यो मे वायुरूपधरोऽच्छिनत् । अष्टमे मासि सम्पूर्णे प्रविश्योमोदरं शिरः ॥ तमिदानीं हनिष्येऽहं गजास्यं साम्प्रतं द्बिज ! । शिव उवाच । श्रुत्वैव नारदः प्राह शिशुरूपिणमीश्वरम् ॥ नारद उवाच । अकिञ्चिज्ज्ञा वयं देव ! योजनेऽस्य मुखस्य ते । त्वमेव च स्वभावेन मखमेतन्नियोजय ॥ [] शिव उवाच । वदतीत्थं मुनिर्यावत् तावत् स ददृशेऽखिलैः । सर्व्वावयवसम्पूर्णो गजानन उमासुतः ॥ किरीटकुण्डलधरो युगबाहुः सुलोचनः । वामदक्षिणभागे च सिद्धिवृद्धिविराजितः ॥ दृष्ट्वा विनायकं स्कन्द ! तथाभूतं निजेच्छया । हर्षेणोत्फुल्लनयना देवाः सर्व्वे तदाब्रुवन् ॥ गजानन इति ख्यातो भविताऽयं जगत्त्रये । एवं भाद्रचतुर्थ्यां स अवतीर्णो गजाननः ॥”)
📄 मूल मुद्रित पृष्ठ (2-292-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔁 जिनके अर्थ में "गजानन" आता है (7)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें