गजासुर पु० गजाकारोऽसुरः । असुरभेद । तस्योत्पत्तिकथा च स्कन्दपु० गणेशख० १० अ० यथा “साम्प्रतं कथयिव्यामि गजासुरकथानकम् । पुरा युगे स राजासोन्नीतिज्ञो लोकपालकः । लक्ष्मीवान् रूपसम्पन्नो वेदशास्त्रार्थकोविदः । देवद्विजार्चनरत आत्मविद्याविशा- रदः” । “महेश इति नाम्ना च विख्यातो भुवनत्रये” इत्युपक्रम्य “उत्पत्तिप्राप्स्यते राजन् त्वया योनौ गजस्य हेति” गुरुवाक्यमुपन्यस्य “कदाचिद्गच्छता तेन वीक्षितो नारदः पथि । अवमन्य ययौ तं तु सप्तोऽसौ मुनिना रुषा । इभास्यो भवितासि त्वमौद्धत्यादन्यजन्मनि । गजासुर इति ख्यातिं यास्यसि त्वं नराधिप! । कैलासे प्राप्स्यसे स्थानमन्ते तस्येव जन्मनि । अवमन्य यतो यातो मामिदानीं नराधम! । इयुक्तान्तर्हितो भूत्वा स स्वयं नारदी मुनिः । गुरुनारदवाक्याभ्यां महेशो वि- स्मयं गतः । गते बहुतिथे काले राजा पञ्चत्वमाप सः । पर्य्यलीकानने स्कन्द! करिण्यां जनिमाप सः । इभास्यो बलवान् वीरः सर्वत्रासौ नराकृतिः”
📄 मूल मुद्रित पृष्ठ (2496,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।