गण्डमाला स्त्री ६ त० । १ रोगभेदे । तल्लक्षणभेदाद्युक्तं भावप्र० यथा “कर्क्कन्धुकोलामलकप्रमाणैः कक्षांसमन्यागल वङ्क्षणेषु । मेदःकफाभ्यां चिरमन्दपाकैः स्याद्गण्ड- माला वहुभिस्तु गण्डैः ।” “गण्डमालाया एका- वस्थाविशेषमपचीमाह “ते ग्रन्थयः केचिदवाप्तपाकाः [] स्रवन्ति नश्यन्ति भवन्ति चान्ये । कालानुबन्धं चिर मादधाति सैवापचीति प्रवदन्ति केचित् । ते ग्रन्थयः गण्डमालाया एव गण्डाः केचिदवाप्तपाकाः सन्तः स्रवन्ति, केचित् नश्यन्ति पुनः प्ररोहन्ति । अन्ये भवन्ति च । कालानुबन्धाच्चिरमादधाति या गण्डमाला चिरं तिष्ठति सैवापची इति केचिद्वदन्ति । अपच्याः साध्यत्वा दिकमाह । साध्या स्मृता पीनसपार्श्वशूलकास- ज्वरच्छर्द्दियुता त्वसाध्या । ग्रन्थेर्लक्षणमाह । वा- तादयो मांसमसृक् च दुष्टे संदूष्य मेदश्च तथा शि- राश्च । वृत्तोन्नत विग्रथितं तु शोथं कुर्व्वन्त्यतो ग्रन्थिरिति प्रदिष्टः । विग्रथितं ग्रन्थिरूपम्” । गण्डमालाऽस्त्यस्य इनि । गण्डमालिन् तद्रोगवति त्रि० । तस्य श्राद्धे वर्ज्यतामाह मनुः “भ्रामरी गण्ड- माली च श्वित्र्यथो पिशुनस्तथा” ।
📄 मूल मुद्रित पृष्ठ (2512-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।