गर्द्दभयाग पु० गर्दभेन यागः । अवकीर्ण्णिनः पाप- क्षयार्थे नैरृतदेवताककाणगर्दभपश्वालम्भनेन कर्त्तव्ये यागभेदे । । तद्विधिर्मनुनोक्तो यथा “अवकीर्णी तु काणेन गर्दभेन चतुष्पथे । पाक- यज्ञविधानेन यजेत निरृतिन्निशि । हुत्वाग्नौ विधि- बद्धोमानन्ततर्श्च समेत्यृ चा । वातेन्द्रगुरुवह्नीनां जुहुयात् सर्पिषाऽऽहुतीः । कामतो रेलसः सेकं व्रतस्थस्य द्विजन्मनः । अतिक्रमं व्रतस्याहुर्द्धर्मज्ञा ब्रह्मवादिनः । मारुतं पुरु- हूतञ्च गुरुं पावकमेव च । चतुरो व्रतिनोऽप्येति ब्राह्मन्ते जोऽवकीर्णिनः” । गर्दभयज्ञ गर्दभेज्यादयोऽप्यत्र । तत्र विशेषः कात्या० श्रौ० सूत्रे उक्तो यथा । “वाऽवकोर्णिनो गर्दभेज्या” सू० १ । १ । १३ “यो ब्रह्मचारी सन् स्त्रियं गच्छति सोऽवकीर्णी तस्यावकीर्णिनः स्खलित- ब्रह्मचर्यस्य गर्दभेज्या गर्दभेनेज्या यागो गर्दभेज्या प्राय- श्चित्तार्था भवति । वाशब्दो विकल्पार्थः तेन गृह्योक्तमपि प्रायश्चित्तान्तरमाज्याहुतिद्वयरूपं विकल्पेन भवति “अथाप- रमाज्याहुती जहोति कामावकीर्णोऽस्मीत्यादिना” (पार- स्कर) । शाखान्तरे उभयस्य विकल्पेन श्रुतत्वात् अत्रैतद्विचार्य्यते किं स्थपतीष्टिरवकीर्णिपशुश्च तदुभय- साधनसंस्कृतेष्वाहवनीयादिषु भवति उत लौकिके इति । तत्र प्रकृतित आहवनीवादिप्राप्रेराहवनीयादीनां चा- धाननिष्पाद्यत्वात् स्थपतेरवकीर्णिनश्चाधानविध्यभावेऽपि इष्टिपशू आधानं प्रयोजतः अत एतदर्थमेवाधानेनाऽऽ- [] हवनीयादीनुत्पाद्य तेष्वेतदुभयं कर्त्तध्यमिति प्राप्ते आह” कर्कः । “लौकिके” १४ सू० । “एतौ स्थपतीष्ट्यवकीर्णिपशू लौकिकेऽग्नौ भवतः न हीमाविष्टिपशू आधानं प्रयोजयतः आभ्यां हि तदेव गृह्यते यद्दर्शपूर्ण्णमासाङ्गं भवति । न चाधानं दर्शपूर्णमासाङ्गम् स्वकाले हि पुरुषसंस्कारकत्वेन तद्विहितमिति । अतो लौकिकाग्नावेवैतावनुष्ठेयौ लौ- किकमेव गार्हपत्यस्थाने स्थापयित्वा तत आहवनीया- दिस्थानेषु विहृत्य स्थपतीष्ट्यवकीर्णिपशू दशपूर्णमासप- शुवत् कर्त्तव्यौ । अत्र विशेषविधानार्थमाह” कर्कः । “भूमौ पशुपुरोडाशश्रपणम्” १५ सू० । “अत्रावकीर्णिनो गर्दभपशुयागे पशुपुरोडाशस्य श्रपणं भूमावेव कर्त्तव्यम् न तु कपालेलु” कर्कः । “अप्स्ववदानहोमः” १६ सू० । “अवदानानां हृदय- जिह्वाक्रोडादीनां होमोऽप्सु उदकेषु भवति नाग्नौ वच- नात् । अवदानग्रहणाटन्यदाघाराज्यभागहोमादिकम- ग्नावेव कार्य्यम्” कर्कः । “शिश्नात् प्राशित्रावदानम्” १७ सू० । “गर्दभस्य शिश्नात् प्राशित्रावदानं कार्य्यम् वचनात्” कर्कः ।
📄 मूल मुद्रित पृष्ठ (2548-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।