गर्भच्युति स्त्री ६ त० । गर्भस्रावे तत्कारणादि सुश्रुते उक्तं यथा “ग्राम्यधर्म्मयानवाहनाध्वगमनप्रस्खलनप्रपतनप्रपीड- नधावनाभिघातविषमशयनासनोपवासवेगाभिघातातिरूक्ष- कटुतिक्तभोजनशाकातिक्षारसेवनातिसारवमनविरेचसप्रे- ङ्खोलनाजीर्णगर्भशातनप्रभृतिभिर्विशेषैर्ब्बन्धनान्मुच्यते ग- र्भः फममिव वृन्तबन्धनादभिघातविशेषैः । स विमुक्त- बन्धनो गर्भाशयमतिक्रम्य यकृत्प्लीहान्त्रविवरैरबस्रंस मानः कोष्ठसङ्क्षोभमापादयात तस्या जठरसङ्क्षोभाद्वायुर- पानोमूढः पार्श्ववस्तिशीर्षोदरयोनिशूलानाहमूत्रसङ्गाना- मन्यतममापाद्य गर्भं व्यापादयति तरुणं शोणितस्रा- वेण, तमेव कदाचिद्विवृद्धमसम्यगागतमपत्यपथमनुप्राप्तम- निरस्यमानमपानवैगुण्यसंमोहितं गर्भं मूढगर्भमित्या- चक्षते । ततः स कीलः प्रतिखुरो वीजकः परिघ इति । तत्र ऊर्द्ध्ववाहुशिरःपादो यो योनिमुखं निरु- णद्धि कील इव स कीलः । निःसृतहस्तपादशिराः कायसङ्गी प्रतिखुरः । यस्तु निर्गच्छत्येकशिरोभुजः स वीजकः । परिघ इव योनिमुखमावृत्य तिष्ठेत् स परिघ इति चतुर्व्विधो भवतीत्येके भाषन्ते तत्तु न सम्यक् कस्मात् स यदा विगुणानिलप्रपीडितोऽपत्यपथमनेकधा प्रतिपद्यते तदा सङ्ख्या हीयते । तत्र कश्चित् द्वाभ्यां सक्थिभ्यां योनिमुख प्रतिपद्यते कश्चिदाभुग्नैकसक्थिरे- केन, कश्चिदाभुग्नसक्थिशरीरः स्फिग्देशेन तिर्य्यगागतः । कश्चिदुरःपार्श्वपृष्ठानामन्यतमेन योनिद्वारं पिधायाव- तिष्ठते । अन्तःपार्श्वापवृत्तशिराः कश्चिदेकेन बाहुना । कश्चिदाभुग्नशिरा बाहुद्वयेन । कश्चिदाभुग्नमध्योहस्त- पादशिरोभिः । कश्चिदेकेन सक्थ्ना योनिमुखमभि- प्रतिपद्यतेऽपरेण पायुमित्यष्टबिधा मूढगर्भगति- रुद्दिष्टाः समासेन । तत्र द्वावन्त्यावसाध्यौ मूढगर्भौ शेषानपि विपरीतेन्द्रियार्थाक्षेपकयोनिभ्रंससंवरणमक्कल्ल- [] श्वासकासभ्रमनिपीडितान् परिहरेत् । भवन्ति चात्र । कालस्य परिणामेन मुक्तं वृन्ताद्यथा फलम् । प्रवर्त्तते स्वभावेन नान्यथा पतितुं फलम् । एवं कालप्रकर्षेण मुक्तो नाडीनिबन्धनात् । गर्भाशयस्थो यो गर्भो जन- नाय प्रपद्यते । कृमिवाताभिघातैस्त तदेवोपद्रुतं फलम । पतत्यकालेऽपि यथा तथा स्याद्गर्भविच्युतिः । आ चतु- र्थात्ततो मासात्प्रस्रवेद्गर्भविच्युतिः । ततः स्थिर- शरीरस्य पातः पञ्चमषष्ठयोः । प्रविध्यति शिरो या तु शीताङ्गी निरपत्रपा । नीलोद्धतसिरा हन्ति सा गर्भं सच तां तथा । गर्भास्पन्दनमावीनां (गर्भवतीनाम्) प्रणाशः श्यावपाण्डुता । भबत्युच्छ्वासपूतित्वं शूलं चान्तर्मृते शिशौ । मानसागन्तुभिर्म्मातुरुपतापैः प्रपीडितः । गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः । वस्त- मारविपन्नायाः कुक्षिः प्रस्पन्दते यदि । तत्क्षणाज्जन्म- काले तं पाटयित्वोद्धरेद्भिषक् ।” गर्भविच्युति गर्भपतनादयोऽप्यत्र ।
📄 मूल मुद्रित पृष्ठ (2553-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।