गान्दिनी, स्त्री, (गां पशुं जीवजातमित्यर्थः दायति शोधयतीति । दै प शोधने + णिनिः + ङीप् । पृषोदरात् साधुः ।) गङ्गा । इति त्रिकाण्ड- शेषः शब्दरत्नावली च ॥ (गां धेनुं ददाति प्रतिदिनमित्यर्थः । दा दाने + णिनि + ङीप् । पृषोदरात् साधुः ।) अक्रूरमाता । इति श्रीभाग- वतम् ॥ (अस्या नामनिरुक्तिर्यथा, हरिवंशे । ३४ । ७--११ । “श्वफल्कः काशिराजस्य सुतां भार्य्यामविन्दत । गान्दिनीं नाम सा गास्तु ददौ विप्रेषु नित्यशः ॥ सा मातुरुदरस्था वै बहून् वर्षगणान् किल । निवसन्ती न वै जज्ञे गर्भस्थां तां पिताब्रवीत् ॥ [] जायस्व शीघ्रं भद्रन्ते किमर्थऽञ्चेह तिष्ठसि । प्रोवाचैनन्तु गर्भस्था सा कन्या गान्दिने दिने ॥ यदि दद्यां ततो जाये पितरं प्रत्युवाच ह । तथेत्युक्त्वा च तां चास्याः पिता काममपूरयत् ॥ दाता यज्वा च वीरश्च श्रुतवानतिथिप्रियः । अक्रूरः सुषुवे तस्यां श्वफल्काद्भूरिदक्षिणः ॥” * ॥ गान्धिनीति पाठोऽपि क्वचित् दृश्यते ॥)
📄 मूल मुद्रित पृष्ठ (2-323-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।