गाधिः, पुं, (गाधते उच्चपदं लिप्सतीति । गाध ङ लिप्सायाम् + “सर्व्वधातुभ्य इन् ।” उणां । ४ । ११७ । इति इन् ।) चन्द्रवंशीयकुशिकराज- पुत्त्रः । स तु विश्वामित्रमुनिपिता कान्यकुब्ज- देशस्य राजा च । (यथा, महाभारते । ३ । ११५ । १९ । “कान्यकुब्जे महानासीत् पार्थिवः सुमहाबलः । गाधीति विश्रुतो लोके वनवासं जगाम ह ॥” अस्य उत्पत्तिकथा यथा, हरिवंशे । २७ । १३--१६ । “कुशिकस्तु तपस्तेपे पुत्त्रमिन्द्रसमं विभुः । लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान् ॥ पूर्णे वर्षसहस्रे वै तन्तु शक्रो ह्यपश्मत । अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः ॥ समर्थं पुत्त्रजनने स्वमेवांशमवासयत् । पुत्त्रत्वे कल्पयामास स देवेन्द्रः सुरोत्तमः ॥ स गाधिरभवद्रांजा मधवान् कौशिकः स्वयम् । पौरकुत्स्यभवद्भार्य्या गाधिस्तस्यामजायत ॥” अस्य कन्या सत्यवती भृगुवंशीय-ऋचीकपत्नी । सा च जमदग्निं प्रसूतवती । यथा, हरिवंशे । २७ । १८ । “गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा । तां गाधिः काव्यपुत्त्राय ऋचीकाय ददौ प्रभुः ॥” ऋग्वेदमते तु अयमेव गाथीत्याख्यया प्रसिद्धः इति तु तत्रैव ३ मण्डले द्रष्टव्यः ॥ एतदनुसारे- णैव रामायणे ‘गाधिन्’ इति नान्तप्रयोगो भगवता वाल्मीकिना विहितः । यथा, तत्रैव १ । १८ । ४० । “शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् ॥”)
📄 मूल मुद्रित पृष्ठ (2-322-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।