🕉️ 19 November 2026, Thursday · 07:10:41 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गारुड
gāruḍa
🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गारुड mfn. (fr. गर्˚), shaped like the bird Garuḍa, coming from or relating to Garuḍa, MBh. vi; R. vi, vii &c.
N. of a Kalpa period, MatsyaP. liii, 52
a kind of rice, Gal.
गारुड n. (= गरुड-माणिक्य) an emerald, Ragh. xiii, 53 (?)
(used as an antidote), Kād. iii, 29
gold, L.
a Mantra against poison, L.
N. of a Tantra work.
📄 मूल मुद्रित पृष्ठ (354,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गारुड a. (डी f.) [गरुडस्येदं अण्] 1 Shaped like Garuḍa. --2 Coming from or relating to Garuḍa. --डः, --डं 1 An emerald; R. 13. 53. --2 A charm against (snake) poison; संगृहीतगारुडेन K. 51 (where it has sense 1 also). --3 A missile presided over by Garuḍa. --4 A military array (व्यूह) of the shape of Garuḍa. --5 Gold.
📄 मूल मुद्रित पृष्ठ (0457-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
गारुड न० गरुडायोक्तं भगवता, तस्येदम् वा अण् । १ गरुडपुराणे २ विषहरमन्त्रभेदे जटाधरः । गरुडा- कृतित्वात् ३ व्यूहभेदे । “गारुडं च महाव्यूहं चक्रे शान्त नवस्तदा” भ० भी० ५६ अ० । तस्य च गरुडाकृतित्वं तदुत्तरश्लोकानां पर्य्यालोचनयाऽवसेयम् । ४ मरकतमणौ राजनि० तस्य च नीलवर्णतया गरुडवर्णता तच्च गारुत्मतशब्दे वक्ष्यते । “सोऽयं वटः श्याम इति प्रतीतो राशिर्मणीनामिव गारुडानाम्” रघुः । ५ स्वर्णे हेम० तल्लोमतुल्यवर्णत्वात्तथा । ६ पातालगरुडलतायाम् स्त्री राजनि० ङीप् । गरुडो देवताऽंस्य अण् । ७ अस्त्रभेदे । “अलं विषादेन अर्जुनेन प्रयुक्तं गारुडम- स्त्रम् । पश्य पश्य । पक्षाघातनिपातमारुतभरोत्प्रो- त्क्षिप्तपृथ्वीधराश्चञ्चूदष्टविशालभोगभुजगाः सूर्य्योपकण्ठ- स्पृशः । सन्तोषं जनयन्त्यमी कुलगुरोस्तीक्ष्णास्तथा सा- रथेर्मन्ये वैरिनृपप्रमाथविकसद्विक्रान्तयः पक्षिणः” । धनञ्जयवि० तत्प्रयोगकृत्यमुक्तम् ।
📄 मूल मुद्रित पृष्ठ (2584,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
गारुडं, क्ली, (गरुडस्य इदमिति । गरुड + अण् वृद्धिश्च । यद्वा, गरुडं श्रोतारमालम्ब्य भगवता यदुपदिष्टम् । यद्बा, गरुडेन प्रोक्तमिति । तन्नि- रुक्तिरुक्ता शिवपुराणे यथा, -- “गरुडस्तु स्वयं वक्ता यत्तद् गारुडसंज्ञकम् ।”) गरुडपुराणम् । इति पुराणम् ॥ यथा, -- गरुड उवाच । “मम माता च विनता नागैर्दासीकृता हरे ! । यथाहं दैवतान् जित्वा चामृतं ह्यानयामि तत् ॥ दास्याद्धि मोक्षयिष्यामि यथाह्रं वाहनं तव । महाबलो महावीर्य्यः सर्व्वज्ञो नागदारणः । पुराणसंहिताकर्त्ता यथाहं स्यां तथा कुरु ॥ विष्णुरुवाच । यथा त्वयोक्तं गरुड ! तथा सर्व्वम्भविष्यति । देवादीन् सकलान् जित्वा चामृतं ह्यानयिष्यसि ॥ नागदास्यान्मातरं स्वां विनतां मोक्षयिष्यसि । महाबलो वाहनन्त्वं भविष्यसि विषार्द्दनः ॥ पुराणं मत्प्रसादाच्च मम माहात्म्यवाचकम् । यदुक्तं मत्स्वरूपञ्च तव चाविर्भविष्यति ॥ गारुडं तव नाम्ना तल्लोके ख्यातिं गमिष्यति । यथाहं देवदेवानां श्रीः ख्याता विनतासुत ! ॥ तथा ख्यातिं पुराणेषु गारुडं गरुडैष्यति । यथाहं कीर्त्तनीयोऽथ तथा त्वं गरुडात्मना ॥ मां ध्यात्वा पक्षिमुख्येदं पुराणं गद गारुडम् । इत्युक्तो गरुडो रुद्र ! कश्यपायाह पृच्छते ॥ [] कश्यपो गरुडं स्तुत्वा वृक्षं दग्धमजीवयत् । स्वयञ्चाप्यमलो भूत्वा विद्ययान्यानजीवयत् ॥ पक्षी ओम् तं स्वाहा जापी विद्येयं गारुडी परा । गरुडोऽहं गारुडं हि शृणु रुद्र ! महात्मकम् ॥” इत्याद्ये महापुराणे गारुडे प्रश्नाध्यायो नाम द्बितीयः ॥ * ॥ (अस्मिन् पुराणे एकोनविंशत्- सहस्रसंख्यकश्लोका वर्त्तन्ते । यथा, देवीभाग- वते । १ । ३ । ११ । “एकोनविंशत् साहस्रं गारुडं हरिभाषितम् ॥” अस्य विणेषविवरणन्तु पुराणशब्दे द्रष्टव्यम् ॥ * ॥) गारुडी विद्या गरुडपुराणे २०२ अध्यायादौ द्रष्टव्या ॥ स्वर्णम् । इति हेमचन्द्रः ॥ विषमन्त्रः । इति जटाधरः ॥ (गरुडः गरुडवर्णस्तस्येदम् । नरुड + अण् । गरुडवर्ण इव वर्णोऽस्येति भावः ।) मरकतमणिः । इति राजनिर्घण्टः ॥ (यथा- रघौ । १३ । ५३ । “त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः । राशिर्मणीनामिव गारुडानां सपद्मरागः फलितो विभाति ॥” गरुडाकारेण सेनारचनयाधिष्ठितत्वात् महा- व्यूहभेदः । यथा, महाभारते । ६ । ५३ । २ । “गारुडञ्च महाव्यूहं चक्रे शान्तनवस्तदा ॥” एतस्य रचनायां गरुडाकृतित्वविवृतिर्यथा, तत्रैवाध्याये । ३--८ । “गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव । चक्षुषी च भरद्वाजः कृतवर्म्मा च सात्त्वतः ॥ अश्वत्थामा कृपश्चैव शिर आस्तां यशस्विनौ । त्रिगर्त्तैर्मत्स्यकैकेयैर्वाटधानैश्च संयुतैः ॥ भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष ! । मद्रकाः सिन्धुसौवीरास्तथा पञ्चनदाश्च ये ॥ जयद्रथेन सहिता ग्रीवायां सन्निवेशिताः । पृष्ठे दुर्य्योधनो राजा सोदर्य्यैः सानुगैर्वृतः ॥ विन्दानुविन्दावावन्त्यौ काम्बोजाश्च शकैः सह । पुच्छमासन् महाराज ! शूरसेनाश्च मारिष ! ॥ दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः । कारूषाश्च विकुञ्जाश्च मुण्डाः कुण्डीवृषास्तथा ॥ बृहद्बलेन सहिता वामपार्श्वे समास्थिताः ॥” कदा वास्य व्यूहस्य प्रयोजनं तदाह मनुः । ७ । १८६--१८७ । “शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् । गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा । वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥” “सूक्ष्ममुखपश्चाद्भागः पृथुमध्यो वराहव्यूहः । एष एव पृथुतरमध्यो गरुडव्यूहः ॥” इति तट्टीका- कृत् कुल्लूकभट्टः ॥)
📄 मूल मुद्रित पृष्ठ (2-327-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "गारुड" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें