गालवि पु० गालवस्यापत्यम् इञ् । गालवर्षेः पुत्रे प्राक्शृङ्ग- वदाख्ये मुनिभेदे । स हि कुणिगर्गस्यातिवृद्धां कन्यामुपयेमे तत्कथा च वृद्धकन्यामुपवर्ण्य “वार्द्धक्येन च राजेन्द्र! तपसा चैव कर्शिता । सा नाशकद्यदा गन्तुं पदात् पदमपि- स्वयम् । चकार गमने बुद्धिं परलोकाय वै तदा । मोक्तुकामान्तु तां दृष्ट्वा शरीरं नारदोऽव्रवीत् । असं- स्कृतायाः कन्यायाः कुतो लोकास्तवानघे! । एवन्तु श्रुतमस्माभिर्द्देवलोके महाव्रते! । तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः । तन्नारदवचः श्रुत्वा साऽब्र- वीदृषिसंसदि । तपसोऽर्द्धं प्रयच्छामि पाणिग्राहस्य सत्तम! । इत्युक्तेऽथास्य जग्राह पाणिं गालवसम्भवः । ऋषिः प्राक्शृङ्गवान्नाम समयञ्चेदमब्रवीत् । समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने! । यद्येकरात्रं वस्तव्यं त्वया सह मयेति ह । तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा । यथादृष्टेग विधिना हुत्वा चाग्निं विधानतः । चक्रे च पाणिग्रहणं तस्योद्वाह- ञ्च गालविः” भा० शल्य० ५३ अ० ।
📄 मूल मुद्रित पृष्ठ (2587,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।