गिरिजामल न० गिरौ पर्वते मेघे घनरवे वा जायते जन- ड, तेषु अमलम्, तथाभूतञ्च तदमलञ्च, गिरिजायाः पार्वत्या वीजरूपं मलं वा । १ अभ्रके तस्य यथा च पार्वतीवीजजातत्वं तथा अभ्रकशब्दे ३१५ पृ० उक्तम् भावप्र० तस्यान्यथोत्पत्तिभेदादिकमक्तं यथा “पुरा बधाय वृत्रस्य वज्रिणा वज्रमुद्धृतम् । विस्फु लिङ्गास्ततस्तस्य गगने परिसर्पिताः । त निपेतुर्घन- ध्वानाच्छिखरेषु महीभृताम् । तेभ्य एव समुत्पन्नं तत्तद्गिरिषु चाभ्रकम् । तद्वज्रं वज्रजातत्प दभ्रम- भ्ररवोद्भवात् । गगनान् स्खलितं यस्माद् गगनञ्च ततो मतम् । विप्रक्षत्रियविट्शूद्रभेदात्तत् स्याच्चतु- र्विवम् । क्रमेणैव सितं रक्तं पीतं कृष्णञ्च वर्णतः । प्रशस्यते सितन्तारे रक्तं तत्तु रसायने । पीतं हेमनि- कृष्णन्तु गदेषु द्रुतयेऽपि च । पिनाकं दर्दुरं नागं वज्रञ्चेति चतुर्विधम् । भुञ्चत्यग्नौ विनिक्षिप्तं पिना- कन्दलसञ्चयम् । अज्ञानाद्भक्षणं तस्य महाकुष्ठ प्रदायकम् । दर्दुरं त्वग्निनिःक्षिप्तं कुरुते दर्दुरं- ध्वनिम । गोलकान् बहुशः कृत्वां स खान्मृत्यु [] प्रदायकः । नागन्तु नागवद् वह्नौ फुत्कारं परिमुञ्चति । तद्भक्षितमवश्यन्तु विदधाति भगन्दरम् । वज्रन्तु वज्र- वत्तिष्ठेत्तन्नाग्नौ विकृतिं व्रजेत् । सर्वाभ्रेषु वरं वज्रं व्याधिवार्द्धक्यमृत्युहृत् । अभ्रमुत्तरशैलोत्थं बहुसत्वं गुणाधिकम् । दक्षिणाद्रिभवं स्वल्पसत्वमल्पगुण- पदम् । अभ्रं कषायं मधुरं सुशीतमायुष्करं धातु- विवर्द्धनञ्च । हन्यात् त्रिदोषं ब्रणमेहकुष्ठप्लीहो- दरग्रन्थिविषक्रमींश्च । रोगान् हन्ति द्रढयति वपु र्वीर्य्यवृद्धिं विधत्ते तारुण्याद्यं रमयति शतं योषतां नित्यमेव । दीर्घायुष्कान् जनयति सुतान् विक्रमैः सिंहतुल्यान् मृत्योर्भीतिं हरति सततं सेव्यमानं मृताभ्रम्” । अभ्रशब्दे अनुक्तास्तद्गुणादिभेदा इहोक्ताः ।
📄 मूल मुद्रित पृष्ठ (2590-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।