गिरिव्रज न० गिरीणां पञ्चानां व्रजो यत्र । मगधदेशान्त- र्गते जरासन्धपुर “सोऽभिजनोऽस्य अण् । गैरिव्रज तद्देशवासिनि त्रि० बहुषु तस्य लुक् । “गिरिव्रजाः मगध- पुण्ड्रमिथिलाश्च” वृ० स० १० अ० । गिरिव्रजवर्णनं भा० स० २१ अ० । यथा “एष पार्थ! महान् भाति पशुमान्नित्यमम्बुमान् । निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः । वैहा- रो १ विपुलः शैलो वराहः २ वृषभ ३ स्तथा । तथा ऋषिगिरि ४ स्तात! शुभश्चैत्यक ५ पञ्चमाः । एते पञ्च महा- शृङ्गाः पर्वताः शीतलद्रुमाः । रक्षन्तीवाभिसंहत्य संह- ताङ्गा गिरिव्रजम्” इत्युपक्रमे । “अङ्गवङ्गादयश्चेव राजानः सुमहाबलाः । गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्ज्जुन! । वनराजीस्तु पश्येमाः पिप्पलानां मनोरमाः । लोध्राणाञ्च शुभाः पार्थ! गौतमौकःसमीपजाः । अर्व्वुदः शक्रवापी च पन्नगौ शत्रुतापनौ । स्वस्तिकस्यालयश्चात्न मणि- नागस्य चोत्तमः । अपरिहार्य्या मेघाना मागधा मनुना कृताः । कौशिको मणिमांश्चैव चक्राते चाप्यनु- ग्रहम् । एवं प्राप्य पुर रम्य दुराधर्षं समन्ततः । अर्थसिद्धिं त्वनुपमां जरासन्धोऽभिमन्यते” ।
📄 मूल मुद्रित पृष्ठ (2591,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।