गुण्डिचा, स्त्री, (गुण्डिभिर्गुण्डिकैः सितपीतादि- रङ्गैः प्रस्तरेष्टकादिचूर्णैर्वा चीयते उपचीयते इति । चि + घञर्थे कः ततष्टाप् । गुण्डिचाइत्या- ख्यया प्रसिद्धा वा । यद्वा गुण्ड्यते अवगुण्ठ्यते ब्रह्मतेजोभिरस्या दर्शक इति शेषः । गुडि वेष्टने इति धातोर्निपातनात् चकारागमे साधुः । इयं व्युत्पत्तिस्तु गुण्डिचाविवरणदर्शनैरेवबोध्यव्या ।) श्रीपुरुषोत्तमदेवस्य रथारोहणानन्तरवासार्थ- मण्डपविशेषः । यथा, -- “मण्डपे वासयेद्देवान् गुण्डिचाख्ये मनोहरे । चारुचन्द्रातपे चारुमाल्यचामरभूषिते ॥ रत्नस्तम्भमये स्वर्णवेदिकोपस्तृतान्तरे । याचीरवलयावीते सुधालेपसमुज्ज्वले ॥ साधुसोपानघटिते चतुर्द्द्वारोपशोभिते । त्रैलोक्याडम्बरयुते महावेद्यां महाक्रतोः ॥ प्रादुर्भावो महेशस्य यात्राभूद्दारुवर्ष्मणः ॥ * ॥ तस्यां श्रीजगन्नाथदेवस्य दर्शनफलं यथा, -- “बिन्दुतीर्थतटे तस्मिन् सप्ताहानि जनार्द्दनः । तिष्ठेत् पुरा स्वयं राज्ञे वरमेतत् समादिशत् ॥ तत्तीर्थतीरे राजेन्द्र ! स्थास्वामि प्रतिवासरम् । सर्व्वतीर्थानि तस्मिंश्च स्थास्यन्ति मयि तिष्ठति ॥ तत्र स्नात्वा विधानेन तीर्थे तीर्थोपपावने । [] सप्ताहं ये प्रपश्यन्ति गुण्डिचामण्डपे स्थितम् ॥ माञ्च रामं सुभद्राञ्च मम सायुज्यमाप्नुयुः ॥” * ॥ तस्या नामकरणं यथा, उत्कलखण्डम् । “अत ऊर्द्धं प्रवक्ष्यामि महावेदीमहोत्सवम् । अज्ञानतिमिरान्धोऽपि येन भास्वत्पदं भजेत् ॥ सर्व्वपापरजःशान्त्या पूज्यत्वात् सर्व्वदैवतैः । गुण्डिचाख्यापि सा यात्रा ब्रह्मतेजोऽवगुण्ठ- नात् ॥”
📄 मूल मुद्रित पृष्ठ (2-338-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।