गुज्जरी, स्त्री, (गुर्ज्जरदेशवासिनां प्रिया । गुर्ज्जर + अण् + स्त्रियां ङीप् । पृषोदरात् रलोपे वृद्ध्यभावे च साधुः ।) रागिणीविशेषः । अस्य ध्यानं यथा, सङ्गीतदर्पणे । “श्यामा सुकेशी मलयद्रुमाणां मृदूल्लसत्पल्लवतल्पयाता । श्रुतेः स्वराणां दधती विभागं तन्त्रीमुखाद्दक्षिणगुज्जरीयम् ॥” अस्याः कालनियमो यथा, -- “नाटो गौडो वडारी च गुज्जरी देशिरेव च । पूर्व्वाह्णे गानमेतेषां निषिद्धमिति तद्बिदः ॥” इति सङ्गीतदामोदरः ॥ मतभेदेन पूर्व्वाह्णेऽपि गीयते ॥ (इयंपुनर्भैरव- रागस्य वराङ्गना । हनूमन्मते तु मेघरागस्य । अस्याः स्वरूपं यथा, सङ्गीतदर्पणे । “ग्रहांशन्यास-ऋषभा सम्पूर्णा गुर्ज्जरी मता । पौरवी मूर्च्छना यस्यां वङ्गाल्या सह मिश्रिता ॥” “पौरवीमूर्च्छना यस्याम् ।” इत्यत्र “सप्तमी मूर्च्छनैतस्याम् ।” इति क्वचित् पाठः । सोमे- श्वरमते इयं पञ्चमहीना षाडवा । इयञ्च केनापि कारणेन रागविकारे जाते तत्पाप- प्रायश्चित्तार्थं प्रायेण गीयते तथाचोक्तम्, -- “लोभान्मोहाच्च ये केचिद् गायन्ति च विरागतः । सुरसा गुर्ज्जरी तस्य दोषं हन्तीति कथ्यते ॥”)
📄 मूल मुद्रित पृष्ठ (2-333-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।