🕉️ 23 November 2026, Monday · 03:45:26 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गुडधेनु
guḍadhenu
🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गुड—धेनु f. a sugar-cow (presented to Brāhmans), PadmaP.
📄 मूल मुद्रित पृष्ठ (356,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
गुडधेनु स्त्री दानार्थं नुडनिर्भिते धेनुभेदे । तद्विधिश्च हेमा० दा० यथा “प्रथमा गुडनेनुः स्यात् घृतघेनुस्तथाऽपरा । तिलधेनु- स्तृतीया तु चतुर्थी जलसंज्ञिता । क्षीरधेनुश्च विख्याता मधुधेनुस्तथाऽपरा । सप्तमी शर्कराधेनुर्दधिधेनुस्तथाऽष्टमी । रसधेनुर्नवमी स्वाद्दशमी स्यात् स्वरूपतः” इत्युपक्रमे “ए- तासां तु विधानञ्च समाचक्ष्व जगत्पते! । किंरूपं केन मन्त्रेण दातव्या तदिहोच्यताम् । मत्स्य उवाच । गुड- धेनुविधनास्य यद्रूपमिह यत्फलम् । तदिदानीं प्रव- क्ष्यामि सर्वपापविनाशनम् । कृष्णाजिनं चतुर्हस्तं प्रागग्रीवं विन्यमेद्भुवि । गोमयेनोपलिप्तायां दर्भाना- स्तीर्य्य सर्वतः । लघ्वेणकाजिनन्तद्वद्वत्सस्य परिकल्पयेत् । प्राङ्मुखीं स्थापयेद्धेनुमुदक्पादां सवत्सकाम्” । एणका- जिनं कृष्णाजिनं प्राङ्मुखीं प्राक्शिरसमित्यर्थः । “तदु- त्तरेण वत्सोऽपि तथैव परिकल्पनीयः । “उत्तमा गुड- धेनुः स्यात्सदा भारचतुष्टयम् । वत्सम्भारेण कुर्वीते भाराभ्यां मध्यमा स्मृता । अर्द्धभारेण वत्सः! स्यात् निजवित्तानुसारतः” । निजवित्तानुसारत इति इय- मुत्तममध्यमादिकल्पना निजवित्तानुसारतः कर्त्तव्ये- त्यर्थः । “धेनुवत्सौ घृतास्यौ तौ सितसूक्ष्माम्बरा- वृतौ । शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ । सित- सूत्रसिरालौ तौ सितकम्बलकम्बलौ । ताम्रकद्रूक- पृष्ठौ तौ सितचामररोमकौ” । कद्रूकं ककुत्प्रदेशः । “विद्रुमभ्रूयुगोपेतौ नवनीतस्तनान्वितौ । क्षौम- पुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ । सुवर्णशृङ्गा- भरणौ राजतक्षुरसंयुतौ । नानाफलमयैर्दन्तैर्घ्राण- गन्धकरण्डकौ” । अत्र च सारतः परिमाणतश्च फल- विशेष इति यथाशक्ति सुबर्णशृङ्गादित्वमवधेयम् । “इत्येवं रचयित्वा तु धूपदीपैरथार्च्चयेत्” । “विधान- मेतद्धेनूनां सर्वासामिह पठ्यते” । सर्वासाम्प्रत्यक्ष- धेनुव्यतिरक्तानामित्यवगन्तव्यम् । तथा “एतदेव विधानं स्यात्त एवोपस्कराः स्मृताः । मन्त्राघाहनसंयुक्ताः सदा पर्यणिपर्वणि । यथाश्रद्धं प्रदातव्या भुक्तिसुक्तिफलप्रदाः । अशेषयज्ञफलदाः सर्वपापहराः शुभाः । अयने विषुवे [] पुस्थे व्यतीपातेऽथ वा पुनः । गुडधेन्वादयो देया उप- रागादिपर्वसु” मत्सपु० । अत्र घृतादिधेनुद्रव्यपरिमाणमपि गुडधेनूक्तमेव । “विधानमेतद्धेनूनां सर्वासामपि पठ्यते इत्यतिदेशात् “कुम्भाः, स्युर्द्रवधेनूनामितरासान्तु राशय्नः” इति तु भारचतुष्टयादिपरिमितस्य द्रवद्रव्यस्य कुम्भाधार- तयावस्थापनम्” हेमाद्रिदानखण्डम् । अन्यत् क्षीरधेनुशब्दे २३७३ पृ० दर्शितरीत्या कार्य्यम्” “धेनुवत्सौ तदा तौ तु सितसूक्ष्माम्बरावृतौ । शक्ति- कर्णाविक्षुपादौ शुद्धमुक्ताफलेक्षणौ । सितसूत्रसिरासौ तु सितकम्बलकम्बलौ । ताम्रककुदपृष्ठौ तु सितचामर- रोमकौ । विद्रुमभ्रूयुगयुतौ नवनीतस्तनान्वितौ । क्षौम- पुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ । इत्येवं रचयित्वा तु धूपदीपैः समर्च्चयेत्” पद्मपु० ।
📄 मूल मुद्रित पृष्ठ (2598-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
गुडधेनुः, स्त्री, (गुडनिर्म्मिता गुडभारादिभिः कृता धेनुः ।) गुडादिनिर्म्मिता धेनुः । यथा, -- “गुडधेनुविधानस्य यद्रूपमिह यत् फलम् । तदिदानीं प्रवक्ष्यामि सर्व्वपापविनाशनम् ॥ कृष्णाजिनं चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि । गोमयेनानुलिप्तायां दर्भमास्तीर्य्य सर्व्वतः ॥ लवणेनाजिनं तद्वत् वत्सस्य परिकल्पयेत् । उदङ्मखीं कल्पयेद्धेनुमुदीच्याञ्च सवत्सकाम् ॥ उत्तमा गुडधेनुः स्यात् सदा भारचतुष्टयैः । बहुभारेण वा कार्य्या भाराभ्यां मध्यमा स्मृता ॥ अर्द्धभारेण वत्सः स्यात् कनिष्ठा भारकेण तु । चतुर्थांशेन वत्सः स्यात् गृहवित्तानुसारतः ॥ धेनुवत्सौ तदां तौ तु सितसूक्ष्माम्बरावृतौ । शुक्तिकर्णाविक्षुपादौ शुद्धमुक्ताफलेक्षणौ ॥ सितसूत्रशिरालौ तु सितकम्बलकम्बलौ । ताम्रगुडकपृष्ठौ तु सितचामररोमकौ । विद्रुमभ्रूयुगकृतौ नवनीतस्तनान्वितौ ॥ क्षौमपुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ । इत्येवं रचयित्वा तु धूपदीपैः समर्च्चयेत् ॥ सर्व्वासां धेनूनामेवं विधानं ज्ञेयम् । इति पाद्मे सृष्टिखण्डम् ॥
📄 मूल मुद्रित पृष्ठ (2-334-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬