गुडभल्लातक पु० गुडेन पक्वः भल्लातकः । पाकविशेषेण गुड- पक्वे भल्लातकादिरूपे औषधभेदे चक्र० तत्पाको यथा “भल्लातकसहस्रे द्वे जलद्रोर्णे विपाचयेत् । पादशेषे रसे तस्मिन् पचेद्गुडतुलां भिषक् । भल्लातकसहस्रार्द्धं छित्त्वा तत्रैव तापयेत् । सिद्धेऽस्मिंस्त्रिफलाव्योषय- मानीमुस्तसैन्धवम् । कर्षांशसम्मित दद्यात् त्वगेलाप- त्रकेशरम् । खादेदग्निबलापेक्षी प्रातरुत्थाय मानवः! । कुष्ठार्शःकामलामेहग्रहणीगुल्मपाण्डताः । हन्यात् प्लीहोदरं कासक्रिमिरोगभगन्दरान् । गुङभल्लातको- ह्येष श्रेष्ठश्चार्शोविकारिणाम्” । प्रकान्तरं यथा “दश- मूल्यमृता भार्गी श्वदंष्ट्रा चित्रकं शटी । भल्लातकसहस्रञ्च पलाशं क्वाथवेद् बुधः । पादशेषे जलद्रोणे रसे तस्निन् [] विपाचयेत् । दत्त्वा गुडतुलामेकां लेहीभूतं समुद्धरेत् । माक्षिकं पिप्पलीतैलं मारुवकञ्च दापयेत् । कुडवं कुडव- ञ्चात्र त्वगेलामरिचन्तथा । अर्शःकासमुदावर्त्तं पाण्डुत्वं शोथमेव च । नाशयेद्वह्निसादञ्च गुडभल्लातकः स्मृतः” ।
📄 मूल मुद्रित पृष्ठ (2599-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।