🕉️ 20 November 2026, Friday · 07:55:26 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गुडाचल
guḍācala
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
गुडाचल पु० दानार्थं कल्पिते गुडनिर्मिते मेरुरूपे पर्वते “प्रथमो धान्यशैलः स्यात् द्वितीयो लवणाचलः । गुडाचलस्तृतीयस्तु” पद्मपु० दश मेरूक्तौ । गुड- पर्वतादयोऽप्यत्र । तद्विधिः हेमा० दा० ब्रह्मपु० । “पुलस्त्य उवाच । “अथात संप्रवक्ष्यामि गुडपर्वतमु- त्तमम् । यत्प्रदानान्नरः स्वर्गमाप्नोति सुरपूजितम् । उत्तमो दशभिर्भारैर्मध्यमः पञ्चभिर्मतः । त्रिभिर्भारैः कनिष्ठः स्यात्तदर्द्धेनाल्पवित्तवान्” । भारः, परिभाषाय व्याख्यातः । “तद्वदामन्त्रणं पूजाहैमवृक्षसुरार्चनम् । विष्कम्भपर्वतांस्तद्वत् सरांसि वनदेवताः । होमं जागरणं तद्वल्लोकपालाधिवासनम् । धान्यपर्वतवत् कुर्य्यातृमं म- न्त्रमुदीरयेत् । यथा देवेषु विश्वात्मा प्रवरोऽयं जनार्दनः । सामवेदस्तु वेदानां महादेवस्तु योगिनाम् । गुणवः स- र्वमन्त्राणां नारीणां पार्वती यथा । तथा रसानां प्रवरः सदैवेक्षुरसो मतः । मम तस्मात् परां लक्ष्मीं [] ददस्व गुडपर्वत! । यस्मात् सौभाग्यदायिन्या भ्राता त्वं गुडपर्वत! । निवासश्चापि पार्वत्यास्तस्मान्मां पाहि सर्वदा । अनेन विधिना यस्तु दद्यात् गुडमयं गिरिम् । पूज्यमानः स गन्धर्वैर्गौरीलोके महीयते । पुनः कल्प- शतान्ते तु सप्तद्वीपाधिपो भवेत् । आयुरारोग्यसम्पन्नः शत्रुभिश्चापराजितः” इति पद्मपुराणोक्तो गुडपर्वत दान- विधिः । “श्रीभगवानुवाच । अतः परं प्रवक्ष्यामि गुडपर्वतमुत्तमम् । सर्वपापहरं पुण्यं सौभाग्यजननं परम् । पुष्टिदं शान्तिदञ्चैव सुखदं दिव्यभोगदम् । भा- रैस्तं दशभिः कुर्य्याद्यथाशक्त्यापि वा भवेत् । पूर्ववत् मण्डपं कृत्वा सर्वोपकरणानि च” । पूर्ववदिति, ब्रह्माण्ड- पुराणोक्तधान्यपर्वतवदित्यर्थः । लोकपालसमोपेतं तथा काञ्चनशृङ्गिणम् । मुक्ताफलविचित्राङ्गं वस्त्रालङ्कृतविग्र- हम् । प्रबालकलतोपेतं इक्षुखण्डोपवेणुकम् । नितम्बं राजतन्तस्य मेखलाकारसंस्कृतम् । कुर्य्यात्ताम्रमयं स्कन्धं नानाधातुविभूषितम् । कृत्वा तमीदृशं शैलं सर्वधान्यस- मावृतम् । सर्वौषधिसमोपेत सशृङ्गं समहाद्रुमम् । कल्पयित्वा विधानेन सवितानं विचक्षणैः । कुण्डमेक ततः कृत्वा चतुःकोणं स्वलङ्कृतम् । नियोज्यास्तत्र वि- द्वांसो व्राह्मणाः शंसितव्रताः । पञ्चमो गुरुरत्रोक्तस्तान् सर्वान् पूजयेत्ततः । पूजितास्ते यथान्यायं होमं कुर्य्यु- रतन्द्रिताः । लोकपालान् ग्रहांश्चैव व्रह्मादींश्च विधा- नतः । स्वलिङ्गोक्तेश्च मन्त्रैश्च होमयेयुर्द्विजोत्तमाः । महाव्याहृतिभिश्चैव अयुतं तत्र होमयेत् । आचार्य्यः सह विप्रैस्तैर्मौनेन सुसम हितः । ब्रह्मघोषरतस्तस्मिन् कारयित्वा महोत्सवम् । एवं विधिं तदा कृत्वा पूर्वेद्युः श्रद्धयान्वितः । दद्यात्तं माघमासस्य तृतीयायां विशेषतः । चैत्रस्य वा विधानेन तृतीयायां प्रदापयेत् । अन्येष्वपि च कालेषु ग्रहणादिषु कारयेत् । त्वं रसानां वरो नित्यं देवानाञ्च सदा प्रियः । सुखं प्रयच्छ मे नित्यं नमस्ते पर्वतोत्तम! । यावद्भूः सागरा नद्यो याच्चन्द्रार्कतारकाः । तावन्मे त्वं सुखं यच्छ सौभाग्यमतुलं तथा । एवं सं- पूजयित्वा तं ब्राह्मणानां निवेदयेत् । आचार्य्यं पूजयेत- पाश्चाद्दीनान्थकृपणानपि । विसृज्य ब्राह्मणास्तांस्त कृत्वा चैव प्रदक्षिणम् । तस्मिन् दिने च भोक्तव्य मधुर क्षारवर्ज्जितम् । अनग्नालेपनञ्चैव कृतकृत्यो भद्धरः । तस्मादेवमिदं दानं फलमुत्तममिच्छता । गतिञ्च शास्वर्त लोके सौभाग्यं रूपमेव च । अनेन विधिना चैव दातव्यो [] गुडपर्वतः । विंशद्भारस्तु कर्तव्यः शेषं पूर्वदाचरेत् । दानमेतत् प्रशस्तं स्यात् स्त्रीणां राजन् विशेषतः । सौभाग्यराज्यकामस्य “सर्वस्यापि विधीयते । पूर्वोक्तञ्च फलं प्राप्य कृतकृत
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें