🕉️ 28 November 2026, Saturday · 02:35:42 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गुणकर्मन्
guṇakarman
🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गुण—कर्मन् n. an unessential secondary action, Madhus.; Nyāyam., Sch. (˚म-त्व)
(in Gr.) the secondary or less immediate object of an action, Pāṇ. ii, 3, 65, Sch.
📄 मूल मुद्रित पृष्ठ (357,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
गुणकर्मन् न० कर्म्म० । १ अप्रधाने कर्म्मणि कर्म्मणो- ऽप्रधानत्वञ्च द्विकर्म्मकधात्वर्थघटकाप्रधानक्रियान्वि- तत्वम् । “कर्त्तृकर्म्मणोः कृति” पा० “गुणकर्म्मणि वेष्यते” वार्त्ति० । “नेताश्वस्य स्रुघ्नं स्नुघ्नस्य वा” अत्र गमनानुकूलव्यापारोनयत्यर्थस्तद्विशेषणीभूतगतौ स्रुघ्न- स्यान्वितत्वेन गुणकर्म्मत्वम् । “गुणानां सत्वादिद्रव्य- रूपाणाम् कर्म्म । सत्वादिद्रव्यरूपजन्ये २ कर्मभेदे च तानि च कर्माणि सा० का० उक्ताणि यथा । “सत्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलञ्च रजः । गुरु वरणकमेव तमः प्रदीपवच्चार्थतोवृत्तिः ।” सत्व- मेव लघु प्रकाशकमिष्टं सांख्याचार्य्यैः, तत्र कार्य्यो- द्गमने हेतुर्धर्म्मोलाघवं गौरवप्रतिद्वन्द्वि यतोऽग्ने- रूर्द्ध्वज्वलनं भवति तदेव लाघवं कस्यचित्तिर्यग्ममने हेतुर्यथा वायोः । एवं करणानां वृत्तिपटुत्वहेतु- [] र्लाघवं गुरुत्वे हि मन्दानि स्युरिति सत्वस्य प्रका- शकत्वत्वमुक्तम् । सत्वतमसी स्वयमक्रियतया स्वस्वकार्य्यं- प्रवृत्तिं प्रत्यवसीदन्ती रजसोपष्टभ्येते अवसादात् प्रच्या व्य स्वकार्य्ये ते उत्साहं प्रयत्नं कार्य्येते तदिदमुक्त- मुपष्टम्भकं रजैति । कस्मादित्यत उक्तं चलमिति । तदनेन रजसः प्रवृत्त्यर्थत्वं दर्शितम् । रजस्तु चलतया परितस्त्रैगुण्यं चालयद्गुरुणावृण्वता च तमसा यत्र प्रवृत्तिप्रतिबन्धकेन क्वचिदेव प्रवर्त्तते इति ततस्ततो व्यावर्त्त्य तमोनियामकमुक्तं गुरु वरणकमेव तमैति । एवकारः प्रत्येकं गिन्नक्रमः सम्बध्यते सत्वमेव रज- एव तमएव । ननु परस्परविरोधशीलागुणाः मुन्दो पसुन्दवत्परस्परं ध्वंसयन्ते इत्येव युक्तं प्रागेव तेषा- मेकक्रियाकर्तृतायाः, इत्यत आह “प्रदीपवच्चार्थतो वृत्तिः, दृष्टमेतत् यथा वर्त्तितैले अनलविरोधिनी अथच मिलिते सहानलेन रूपप्रकाशलक्षणं कार्य्यं कुरुतः यथा च वातपित्तश्लेष्माणः परस्परविरोधिनः शरीर- धारणलक्षणकार्य्यकारिणः एवं सत्वरजस्तमांसि मिथो- विरुद्धान्यपि अनुवर्त्स्यन्ति च स्वस्वकार्य्यं करिव्यन्ति च अर्थतः पुरुषार्थत इति यावत् । वक्ष्यति च “पुरुषार्थ एव हेतुर्न केनचित्कार्य्यते करणम्” इति । अत्र च सुखदुःखमोहाः परस्परविरोधिनः स्वस्वानुरूपाणि सुखदुःखमोहात्मकान्येव निमित्तानि कल्पयन्ति । तेषाञ्च परस्परमभिभाव्याभिभावकभावान्नानात्वम् । तद्यथा एकैव स्त्री रूपयौवनकुलशीलसम्पन्ना स्वामिनं सुखाकरोति तत्कस्य हेतोः? स्वामिनं प्रति तस्याः सुखरूपसमुद्भवात् । सैव स्त्री सपत्नीः दुःखाकरोति- तत्कस्य हेतोः? ताः प्रति तस्या दुःखरूपसमुद्भवात् । एवं पुरुषान्तरं तामविन्दत् सैव मोहयति तत्कस्य हेतोः? तत् प्रति तस्या मोहरूपसमुद्भवात् । अनया च स्त्रिया सर्वे भावा व्याखाताः । तत्र यत्मुखहेतुस्त- त्सुखात्मकं सत्वं, यत् दुःखहेतुस्तद्दुःखात्मकं रजः, यन्मोहहेतुस्तन्मोहात्मकं तमः, सुखप्रकाशलाघवानां त्वेकस्मिन् युगपदुद्भूतावविरोधः सहदर्शनात् । त- स्मात् सुखदुःखमोहैरिव विरोधिभिरेकैकगुणवृत्तिभिः सुखप्रकाशलाघवैर्न निमित्तभेदा उन्नोयन्ते एवं दुःखो- पष्टम्भकत्वप्रवर्त्तकत्वैरेवं मोहगुरुत्वावरणैरिति सिद्धं त्रैगुण्यमिति ।” विस्तरेण गुणकर्म्मविभागश्च गीतायां दर्शितो यथा । [] “सत्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निब ध्नन्ति महावाहो! देहे देहिनमव्ययम् । तत्र सत्वं निर्म्मलत्वात् प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ! । रजोरागात्मकं विद्धि तृष्णासङ्गम मुद्भवम् । तन्निबध्नाति कौन्तेय! कर्मसङ्गेन देहिनम् तमस्त्वज्ञानजं विद्धि मोहनं सर्व्वदेदिनाम् । प्रमादाल- स्यनिद्राभिस्तन्निबध्नाति भारत! । सत्वं सुखे सञ
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬