गुणनिधि पु० गुणानिधीयन्ते अस्मिन् नि + धा--आधारे कि ६ त० । १ गुणाधारे कम्पिल्लनगरवासियज्ञदत्तदीक्षितद्विज- पुत्रे “आसीत् काम्पिल्लनगरे सोमराजिकुलोद्भवः । दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः । तस्य पुत्रो गुणनिधिश्चन्द्रविम्बसमाकृतिः” काशी० १३ अ० । स चा- त्यन्तद्यूताद्यासङ्गेन दुर्वृत्ततया पित्रा त्यक्तः इतस्ततोऽटन् अन्नालाभेन शिवचतुर्दश्यामुपोष्य रात्रौ शैवकृतशिवलिङ्गा- र्चनादिकं दृष्ट्वा सुप्तेषु तदर्चकेषु शिवनिर्माल्यहरणायोप चक्राम तत्र काले च शिवगृहे पूर्वप्रज्वलितप्रदीपे निर्वा- णपायतां प्राप्ते अपहर्त्तव्यद्रव्य सम्यग् दर्शनार्थं स्ववस्त्र- खण्डेन तस्य दीपस्योद्दीपनं कृत्वा शिवनैवेद्यान्नं हर्त्तु मारेभे अस्मिन्नेव काले शिवोपासकानां निद्रापगमे- तैस्ताड्यमानो गुणनिधिर्मृतः तत्र प्रसङ्गेन शिवरात्रि- दिनोपवासजेन शिर्वार्चादर्शनजेन शिवगृहदीपोद्दीपनजेन च पुण्येन कैलासं जगाम भोगावसाने कलिङ्गदेशाधिपत्यं लेभे पूर्वसंस्कारवशात् शिवभक्तेः प्रादुर्भावे शिवाराधनेण कुवेरपदवीं प्राण इति तत्रत्यकथासंक्षेपः । विस्वरस्तु [] तत्र दृश्यः ।
📄 मूल मुद्रित पृष्ठ (2606-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।