गुणातीत पु० गुणान् सत्वादिगुणधर्म्मात् सुखदुःखादीन- तीतः । १ परमेश्वरे स्थितप्रज्ञे २ आत्मज्ञे च । गुणातीत- ताकारणसहितं तल्लक्षणमुक्तं गीतायां यथा “गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतश्नुते । अर्ज्जुन उवाच । कैर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो! । किमा- चारः कथं चैतांस्त्रीन् गुणानतिवर्त्तते । श्रीभगवा- नुवाच । प्रकाशञ्च प्रवृत्तिञ्च मोहमेव च पाण्डव! । न द्वेष्टि संप्रवृत्तानि निवृत्तानि न काङ्क्षति । उदासी- नवदासीनोगुणैर्योन विचाल्यते । गुणा वर्त्तन्त इत्येवं [] योऽवतिष्ठति नेङ्गते । समदुःखसुखः स्वस्थः समलोष्ट्राश्म- काञ्चनः । तुल्यप्रियाऽप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः । मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भ- परित्यागी गुणातीतः स उच्यते । माञ्च योऽभ्यभि- चारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते” ।
📄 मूल मुद्रित पृष्ठ (2609-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।