गुदभ्रंशः, पुं, (गुदस्य भ्रंशोऽस्मात् । गुदं भगं भ्रश्यतेऽस्मादिति वा ।) मलद्वारनिर्गमरोगः । तस्य लक्षणम् । “प्रवाहनातिसाराभ्यां निर्गच्छति गुदं वहिः । रूक्षदुर्ब्बलदेहस्य गुदभ्रंशं तमादिशेत् ॥” इति माधवकरः ॥ तच्चिकित्सा यथा, -- “गुदभ्रंशे गुदं स्विन्नं स्नेहेनाक्तं प्रवेशयेत् । प्रविष्टं रोधयेद्यत्नाद्गव्यसच्छिद्रचर्म्मणा ॥ पद्मिन्याः कोमलं पत्रं यः खादेच्छर्करान्वितम् । एतन्निश्चित्य निर्द्दिष्टं न तस्य गुदनिर्गमः ॥ मूषकाणां वसाभिर्व्वा गुदभ्रंशे प्रलेपनम् । सुस्विन्नमूषिकामांसेनाथवा स्वेदयेद्गुदम् ॥ वृक्षाम्लानलचाङ्गेरीविल्वपाठायवाग्रजम् । तक्रेण शीलयेत् पायुं भ्रंशार्त्तोऽनलदीपनम् ॥ मूषकान् दशमूलानि गृह्णीयादुभयं समम् । तयोः क्वाथेन कल्केन पचेत्तैलं यथोदितम् ॥ अभ्यङ्गात्तस्य तैलस्य गुदभ्रंशो विनश्यति । विनश्यति तथा तेन गुदमूलं भगन्दरः ॥” इति मूषकतैलम् । इति भावप्रकाशः ॥ (यदा गुह्यं निरस्येत तदा कुर्य्यात् क्रियामिमाम् । सहचर्य्याबलानाञ्च रसो ग्राह्यो घृतं पयः ॥ पक्त्रा घृतेन लेपः स्यात् तस्य चेदं प्रशस्यते । अरणीपल्लवक्वाथो वाप्यं लोष्ट्रं सचन्दनम् ॥ प्रोत्तप्य वह्निसदृशं सहसा नरस्य निर्व्वाप्य काञ्जिकमथो विदधीत तद्वत् । सौख्यञ्च साम्यगुदसेचनकं प्रशस्तं संवेश्यमध्यगुदतो दृढबन्धनं स्यात् ॥” इति गुदभ्रंशः ॥ इति हारीते चिकित्सितस्थाने तृतोयेऽध्याये ॥ * ॥ अथास्य चिकित्सा । “गुदनिःसरणे शूले पानमम्लस्य सर्पिषः । प्रशस्यते निरामाणा मथवाप्यनुवासनम् ॥ चाङ्गेरी कोलदध्यम्लनागरक्षारसंयुतम् । घृतमुत्क्वथितं पेयं गुदभ्रंशरुजापहम् ॥” इति चाङ्गेरीघृतम् ॥ * ॥ “सत्तव्यपिप्पलीमूलं सव्योषविडदाडिमम् । पेयमम्लं घृतं युक्त्या सधान्याजाजिचित्रकम् ॥ दशमूलोपसिद्धं वा सविल्वमनुवासनम् । शताह्वा शटी विल्वैर्व्वा वचया चित्रकेण वा ॥ स्तब्धभ्रष्टगुदे पूर्व्वं स्नेहस्वेदौ प्रयोजयेत् ॥” इति चरके चिकित्सास्थाने दशमेऽध्याये ॥)
📄 मूल मुद्रित पृष्ठ (2-338-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।