गुर्ज्जरी, स्त्री, (जॄ + णिच् + अच् । गुरिति शत्रु- कृतताडनादिकं तज्जीर्य्यत्यत्र इति अधिकरणे अप् । गुर्ज्जरः देशः तस्य प्रियेति ङीष् । यद्वा गुर्ज्जरदेशःप्रियोऽस्या इति अण् ङीप् च । गुर्ज्जरदेशवासिनी अतो गुर्ज्जरीतिकेचित् ।) [] रागिणीविशेषः । इति हलायुधः ॥ इयन्तु भैरव- रागस्य रागिणीति बोध्यम् । यथा, सङ्गीतदर्पणे रागविवेकाध्याये । १६ । “भैरवी गुर्ज्जरी रामकिरी गुणकिरी तथा । वाङ्गाली सैन्धवी चैव भैरवस्य वराङ्गनाः ॥” अस्या गानवेलानिर्णयो यथा, तत्रैव । २० । “वेलावली च मल्लारी वल्लारी सोमगुर्ज्जरी ।” इयं हि ग्रीष्मऋतौ स्वस्वामिना भैरवरागेण सह गीयते । यथा, तत्रैव । २७ । “भैरवः ससहायस्तु ऋतौ ग्रीष्मे प्रगीयते ।” इति सोमेश्वरमतम् । हनूमन्मते तु । इयमेव मेघरागस्य स्त्री । यथा, तत्रैव । ३७ । “मल्लारी देशकारी च भूपाली गुर्ज्जरी तथा । टङ्का च पञ्चमी भार्य्या मेघरागस्य योषितः ॥” इयं पुना रागार्णवमते पञ्चमरागाश्रया रागिणी- त्यवधेयम् । यथा, तत्रैव । ४० । “ललिता गुर्ज्जरी देशी वराडी रामकृत्तथा । मता रागार्णवे रागाः पञ्चैते पञ्चमाश्रयाः ॥”)
📄 मूल मुद्रित पृष्ठ (2-341-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।