गुहषष्ठी स्त्री गुहप्रिया षष्ठी तज्जन्मदिनत्वात् शाक० त० । “येयं मार्गशिरे मासि षष्ठी भरतसत्तम! । पुण्या पापहरा धन्या शिवा शान्ता गुहप्रिया” ति० त० भविष्योक्ते मार्गशुक्लषष्ठीतिथौ । इयं वारभेदादि- योगेन चम्पेति कीर्त्त्यते यथाह नि० सि० ब्रह्मा० पु० “मार्गे भाद्रपदे शुक्ला षष्ठी वैधृतिसंयुता । रविवारेण संयुक्ता सा चम्पेतीह कीर्त्तिता” “विशाखाभौम- योगेन सा चम्पेतीह कीर्त्त्यते” इति मदनरत्ने पाठः । गुहस्य षष्ठ्यां कृतार्थतोक्ता भा० व० २२४ अ० “तस्मिन् कुण्डे प्रतिपदि कामिन्या स्वाहया तदा । तत् स्कन्नं तेज- सा तत्र संवृतं जनयत् सुतम्” इत्युपक्रमे “द्वितीया- यामिति व्यक्तस्तृतीयायां शिशुर्बभौ । अङ्गप्रत्यङ्गसम्भूत- श्चतुर्थ्यामभवद्गुहः” इत्युक्त्वा २२८ अ० “तदा तदाश्रया- ल्लक्ष्मीः स्वयं देवी शरीरिणाम् । श्रीजुष्टं पञ्चमीं स्कन्दस्तस्मात् श्रीपञ्चमी स्मृता । षष्ठीं कृतार्थोऽभूद्य स्मात् तस्मात् षष्ठी महातिथिः” उक्तम् । इयमेव स्कन्द षष्ठीति नि० सि० उक्तम् । ति० त० तु चैत्रशुक्लषष्ठ्या [] एव स्कन्दषष्ठीत्वं व्यवस्थापितं तच्च स्कन्दषष्ठीशब्दे वक्ष्यते । देशभेदाद्व्यवस्था
📄 मूल मुद्रित पृष्ठ (2628-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।