गृध्रसी स्त्री गृध्रमपि स्यति सो--क गौरा० ङीष् ६ त० । वात- रोगभेदे यथाह सुश्रुतः “पार्ष्ण्यो प्रत्यङ्गुलीनां तु स्तम्भकृत् यानिलार्द्दिता । सकथ्नोः क्षेपं निगृह्णीयाद् गृध्रसीति हि सा स्मृता” । माधवकरोऽप्याह । “स्फिक्पूर्वोरुकटी पृष्ठजानुजङ्घापदं क्रमात् । गृध्रसीस्तम्भकृत् तोदै- र्गृह्णाति स्पन्दते मुहुः । वाताद्वातः कफात्तन्द्रा गौर- वाऽरोचकान्विता” । भावप्रकाशे विस्तरेणोक्तम् यथाह “स्फिक्पूर्व्वोरुकटीपृष्ठजानुजङ्घापदम् क्रमात् । गृध्रं- सीस्तम्भकृत् तोदैर्गृह्णाति स्पन्दते मुहुः । वाताद्वात कफाभ्यां सा विज्ञेया द्विविधा पुनः । वातजायां भवे- त्तोदो देहस्यातीव वक्रता । जानुजङ्घोरुसन्धीनां स्फुरणं स्तम्भता भृशम् । वातश्लेष्मोद्भवायान्तु गौरबं वह्निनार्द्दवम् । तन्द्रा मुखप्रसेकश्च भक्तद्वेषस्तथैव च । गध्रसी वातात् केबलात् स्फिगादिपर्य्यन्तं स्तम्भकृत् तोदैर्गृह्णाति । क्रमात् वृद्धिक्रमात् तेन यथा यथा [] वर्द्धते तथा तथा स्फिगादीन्याक्रामति । नात्र ग्रहणे निर्द्धेशक्रमनियमः । तथा सुहुः स्पन्दते स्फिगादिषु शिराकम्पं करोतीत्यर्थः” ।
📄 मूल मुद्रित पृष्ठ (2632-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।