गृहदेवी स्त्री गृहे तत्कुड्ये विलिख्य पूज्या देवी । जरानाम [] राक्षस्याम् तत्कथा भा० स० १७ अ० जरा नामा- ऽस्मि भद्रं ते राक्षसी कामरूपिणी । तव वेश्मनि राजेन्द्र! पूजिता न्यवसं सुखम् । गृहे गृहे मनुष्याणां नित्यं तिष्ठामि राक्षसी । गृहदेवीति नाम्ना वै पुरा सृष्टा स्वयम्भुवा । दानवानां विनाशाय स्थापिता दिव्य रूपिणी । यो मां भक्त्या लिखेत् कुड्ये सपुत्रां यौवना- न्विताम् । गृहे तस्य भवेद् वृद्धिरन्यथा हानिमाप्नुयात् । त्वद्गृहे तिष्ठमाना तु पूजिताऽहं सदा विभो! । लि- खिता चैव कुड्येऽहं पुत्रैर्बहुभिरावृता । गन्धपुष्पै- स्तथा धूपैर्भक्ष्यैर्भोज्यैः सुपूजिता । साऽहं प्रत्युपका- रार्थं चिन्तयाम्यनिशन्तव । तवेमे पुत्रसकले दृष्ट- वत्यस्मि धार्मिक! । संश्लेषिते मया दैवात् कुमारः सम पद्यत । तव भाग्यान्महाराज! हेतुमात्रमहं त्विह । मेरुं वा खादितुं शक्ता किं पुनस्तव बालकम् । गृहसं- पूजनात्तुष्ट्या मया प्रत्यर्पितस्तव”
📄 मूल मुद्रित पृष्ठ (2657-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।