गोदुग्ध न० ६ त० । गोः क्षीरे । भावप्र० तद्गुणा उक्तास्तच्च वाक्यं गोशब्दे दर्शितम् । वर्णभेदेन गोर्दुग्धस्य गुणास्त- त्रैव “कृष्णाया गोर्भवं दुग्धं वातहारि गुणाधिकम् । पीताया हरते पित्तं तथा वातहरं भवेत् । श्लेष्मलं गुरु शुक्लाया रक्तायाश्चापि वातहृत् । बालवत्सविव- त्सानां गवां दुग्धं त्रिदोषकृत् । वष्कयिण्यास्त्रिदोषघ्नं तर्पणं बलकृत् पयः । जाङ्गलानूपशैलेषु चरन्तीनां यथो- त्तरम् । पयो गुरुतरं स्नेहो यथाहारं प्रवर्त्तते । खल्यन्नभक्षणाज्जातं क्षीरं गुरु कफप्रदम् । तत्तु बल्यं परं वृष्यं स्वस्थानां गुणदायकम् । पलालतृणका- र्पासवीजजं रोगिणो हितम्” राजनि० तु “गवां प्रत्यूषसि- क्षीरं गुरु विष्टम्भि दुर्जरम् । तस्मादभ्युदिते सूर्ये यामं यामार्द्धमेव वा । समुत्तार्य पयोग्राह्यं तत्- पथ्यं दीपनं लघु । विवत्साबालवत्सानां पयो दोष- लमीरितम् । शस्तं वत्सैकवर्णायाघवलीकृष्णायोरपि” इक्ष्वादा मासपर्णादा ऊर्द्धशृङ्गो च या भवेत् । तासां गवां हितं क्षीरं शृतं वाऽशृतमेव वा । गवां सितानां वातघ्नं कृष्णानां पित्तनाशनम् । श्लेष्मघ्नं रक्तवर्णानां त्रीन् हन्ति कपिलापयः” राजनि० ।
📄 मूल मुद्रित पृष्ठ (2703,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।