गोधापदी, स्त्री, (गोधाया इव पादो मूलं यस्याः । स्वाङ्गत्वात् ङीष् । “कुम्भपदीषु च” ५ । ४ । १३९ । इति पद्भावः ।) लताविशेषः । गोया- लिया इति भाषा ॥ तत्पर्य्यायः । सुवहा २ । इत्यमरः । २ । ४ । ११९ ॥ हंसपदी ३ गोधाङ्घ्री ४ त्रिफला ५ । इति भरतः ॥ त्रिपदी ६ मधु- स्रवा ७ हंसपादी ८ । इति रत्नमाला ॥ हंस- पादिका ९ हंसाङ्घ्रिः १० रक्तपादी ११ त्रिपदा १२ घृतमण्डलिका १३ विश्वग्रन्थिः १४ त्रिपादिका १५ त्रिपादी १६ कीटमारी १७ कर्णाटी १८ ताम्रपादी १९ विक्रान्ता २० ब्रह्मादनी २१ पदाङ्गी २२ शीताङ्गी २३ सुतपादिका २४ सञ्चारिणी २५ पदिका २६ प्रह्लादी २७ कीटपादिका २८ धार्त्तराष्ट्र- पदी २९ गोधापदिका ३० । इति शब्दरत्ना- वली ॥ द्विदला ३१ हंसवती ३२ । इति जटा- धरः ॥ अस्या गुणाः । कटुत्वम् । उष्णत्वम् । विषभूतभ्रान्त्यपस्मारदोषनाशित्वम् । रसायन- त्वञ्च । मुषली । तालमूली इति ख्याता । इति राजनिर्घण्टः ॥
📄 मूल मुद्रित पृष्ठ (2-356-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।