🕉️ 19 November 2026, Thursday · 08:39:52 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गोमंत
gomaṃta
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
गोमंत संज्ञा पुं॰ [सं॰ गोमन्त]
१. सह्याद्रि के अंतर्गत एक पहाड़ी जहाँ गोमती देवी का स्थान है । यह सिद्धपीठ माना ाजाता है ।
२. कुत्ते पालने या बेचनेवाला ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गो—मन्त m. N. of a mountain, MBh. ii, 618; vi, 449 (v.l. ˚न्द), Hariv.; VarBṛS. &c.
an owner of cattle, W.
a herd of cattle, W.
a multitude of cattle-owners, W.
गो—मन्त m. pl. N. of a people, MBh. vi, 351 (v.l. गोघ्नत).
📄 मूल मुद्रित पृष्ठ (366,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
गोमन्त पु० सह्यपर्व्वं तविवरस्थे पर्व्वतभेदे । “ततश्च्युताः गमिष्यामः सह्यस्य विवरं गिरिम् । गोमन्तमिति वि- ख्यातं नैकशृङ्गविभूषितम्” हरिवं० ९६ अ० । तद्वर्ण्णनञ्च “एवं वयं जरासन्धादभितः कृतकिल्यिषाः । सामर्थ्य- वन्तः सम्बन्धाद् गोमन्तं समुपाश्रिताः । त्रियोजनायतं सप्तत्रस्कन्धं योजनादधि । योजनान्ते शतद्वारं वीर विक्रमतोरणम्” भा० स० १३ अ० । “तदगच्छ कृष्ण! शैलेन्द्रं गोमन्तं तु नगोत्तमम्” तत्रैव । जरासन्धेन तत्र कृष्णयुद्धकथा तत्पर्वतदाहकथा च हशिवं० ९९ अ० दृश्या । “मथुरापूर्वार्द्धं हिमवद्गोमन्त- चित्रकूटस्थाः” वृ० स० १६ अ० ।
📄 मूल मुद्रित पृष्ठ (2714,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
गोमन्तः, पुं, पर्व्वतविशेषः । इति जटाधरः ॥ (अयं हि सह्यपर्व्वतविवरस्थितो गिरिः यदुक्तं हरिवंशे । ९५ । ६३ । “ततश्च्युता गमिष्यामः सह्यस्य विवरे गिरिम् । गोमन्त इति विख्यातं नैकशृङ्गविभूषितम् ॥” अत्र पर्व्वते भगवती गोमतीरूपेण विराजते । यदुक्तं देवीभागवते । ७ । ३० । ५७ । “गोमन्ते गोमती देवी मन्दरे कामचारिणी ॥” अयं हि द्वितीयमेरुरिव महान् पर्व्वतः । अस्य वर्णनं यथा, हरिवंशे । ९६ । ४--२७ । “ते चाध्वविधिना सर्व्वे ततो वै दिवसक्रमात् । गोमन्तमचलं प्राप्ता मन्दरं त्रिदशा इव ॥ लताचारुविचित्रञ्च नानाद्रुमविभूषितम् । गन्धागुरुपिनद्धाङ्गं चित्रं चित्रैर्मनोरमैः ॥ द्विरेफगणसङ्कीर्णं शिलासङ्कटपादपम् । मत्तवर्हिणनिर्घोषैर्नादितं मेघनादिभिः ॥ गगनालग्नशिखरं जलदासक्तपादपम् । मत्तद्विपविषाणाग्रपरिधृष्टोपलाङ्कितम् ॥ कूजद्भिश्चाण्डजगणैः समन्तात् प्रतिनादितम् । दरीप्रपाताम्बुरवैश्छन्नं शाद्बलपल्लवैः ॥ नीलाश्मचयङ्घातैर्ब्बहुवर्णं यथा घनम् । धातुविस्रावदिग्धाङ्गं सानुप्रस्रवभूषितम् ॥ कीण सुरगणैः कान्तैर्मैनाकमिव कामगम् । उच्छ्रितं सुविशालाग्रं समूलाम्बुपरिस्रवम् ॥ सकाननदरीप्रस्थं श्वेताभ्रगणभूषितम् । पनसाम्रातकाम्रौघैर्व्वेत्रस्यन्दनचन्दनैः ॥ [] तमालैलावनयुतं मरिचक्षुपसङ्कलम् । पिप्पलीवल्लिकलिलं चित्रमिङ्गुदपादपैः ॥ द्रुमैः सर्ज्जरसानाञ्च सर्व्वतः प्रतिशोभितम् । प्रांशुशालवनैर्गुप्तं बहुचित्रवनैर्युतम् ॥ सर्ज्जनिम्बार्ज्जुनवनं पाटलीकुलसङ्कुलम् । हिन्तालैश्च तमालैश्च पुन्नागैश्चोपशोभितम् ॥ जलेषु जलजैश्छन्नं स्थलेषु स्थलजैरपि । पङ्कजैर्द्रुमषण्डैश्च सर्व्वतः प्रतिभूषितम् ॥ जम्बूजम्बूलवृक्षाढ्यं कन्दकन्दलभूषितम् । चम्पकाशोकबहुलं विल्वतिन्दुकशोभितम् ॥ कुटजैर्नागपुष्पैश्च समन्तादुपशोभितम् । नागयूथसमाकीर्णं मृगसङ्घातशोभितम् ॥ सिद्धचारणरक्षोभिः सेवितप्रस्तरान्तरम् । विद्याधरगणैर्नित्यमनुकीर्णशिलातलम् । सिंहशार्द्दलसन्नादैः सततं प्रतिनादितम् । सेवितं वारिधाराभिश्चन्द्रपादैश्च शोभितम् ॥ स्तुतं त्रिदशगन्धर्व्वैरप्सरोभिरलङ्कतम् । वनस्पतीनां दिव्यानां पुष्पैरुच्चावचैश्चितम् ॥ शक्रवज्रप्रहाराणामनभिज्ञं कदाचन । दावाग्निभयनिर्मुक्तं महावातभयोज्झितम् ॥ प्रपातप्रभवाभिश्च सरिद्भिरुपशोभितम् । जलशैवलशृङ्गाग्रैरुन्मिषन्तमिव श्रिया ॥ स्थलीभिर्मृगजुष्टाभिः कान्ताभिरुपशोभितम् । पार्श्वैरुपलकन्माषैर्मेघैरिव विभूषितम् ॥ पादपोच्छ्रितसौम्याभिः सपुष्पाभिः समन्ततः । मण्डितं वनराजीभिः प्रमदाभिः पतिं यथा ॥ सुन्दरीभिर्द्दरीभिश्च कन्दरीभिस्तथैव च । तेषु तेष्ववकाशेषु सदारमिव शोभितम् ॥ ओषधीदीप्तशिखरं वानप्रस्थनिषेवितम् । जातरूपैर्व्वनोद्देशैः कृत्रिमैरिव भूषितम् ॥ मूलेन सुविशालेन शिरसात्युच्छ्रितेन च । पृथिवीमन्तरीक्षञ्च गाहयन्तमिव स्थितम् ॥” श्रीकृष्णो बलरामेण सह जरासन्धभयात् अत्र पर्व्वते पलायमानः स्थितः । ततो मदमत्तैर्बहु- संख्यकराजभिरतिगर्व्वितो जरासन्धः कृष्णेण सार्द्धं युयुत्सुरत्रागत्येमं गोमन्तपर्व्वतं दग्धुं प्रवृत्तः एतत्कथा हरिवंशे ९८ अध्याये विस्त- रशो द्रष्टव्या ॥ * ॥) गवां स्वामिसमूहश्च ॥ (तत्र गोमच्छब्दे प्रथमाविभक्तेर्बहुवनप्रयोगः ॥)
📄 मूल मुद्रित पृष्ठ (2-360-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें