गोलयन्त्र न० सि० शि० उक्ते यन्त्रभेदे । “अपवृत्तगरविचिह्न क्षितिजे धृत्वा कुजेन संसक्ते । नाडोवृत्ते विन्दुं कृत्वा धृत्वाथ जलसमं क्षितिजम् । रविचिह्नस्य च्छाया पतति कुमध्ये यथा तथा विधते । उडुगोले कुजविन्द्वोर्मध्ये नाड्यो द्युजाताः स्युः” । [] “यथोक्तविधिना खगोलान्तर्भगोलं वद्ध्वा तत्र क्रान्तिवृत्ते मेषादेरारभ्य रविभुक्तं राशिभागाद्यं दत्त्वा तदग्रे तच्चिह्नं तदपवृत्तग--रविचिह्न मुच्यते । भगोलं चालयित्वा- रविचिह्नं क्षितिजे धार्य्यम् । तथा धृते सति क्षितिजं प्राच्यां विषुवन्मण्डले यत्र लग्नं तत्र खटिकया विन्दुः कार्य्यः । ततः क्षितिजवृत्तं जलसमं यथा भवति तथा गोलयन्त्रं स्थिरं कृत्वा भगोलस्तथा चाल्यो यथा रविचिह्नस्य च्छाया भूगर्भे पतति । तथा कृते सति विषुवद्वृत्ते क्षितिजविन्द्वोर्मध्ये यावत्यो घटिका स्तावत्यस्तस्मिन् काले दिनगता ज्ञेयाः । अपवृत्ते मेषादेरारभ्य प्राक् क्षितिजपर्य्यन्तं यद्राशिभागाद्यं तल्लग्नं ज्ञेयम्” प्रमिताक्षरा ।
📄 मूल मुद्रित पृष्ठ (2719-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।