गोवर्द्धन न० वृध--णिच् भावे ल्युट् ६ त० । १ गवां वर्द्धने । करणे ल्युट् । २ गिरियज्ञभेदे तत्प्रकारो गोयज्ञशब्दे दृश्यः वृधि--णिच्--कर्त्तरि ल्यु ६ त० । ३ वृन्दावनस्थे पर्व्वत- भेदे पु० तस्य पूजाकालो हरिभक्तिविलासे १६ वि० उक्ते [] यथा “प्रातर्गोवर्द्धनं पूज्य द्यूतञ्चैव समाचरेत् । भूषणीयास्तथा गावः पूज्याश्च दोहवाहनाः । श्री० कृष्णदासवर्य्योऽयं श्रीगोवर्द्धनभूधरः । शुक्लप्रतिपदि प्रातः कार्त्तिकेऽर्च्च्योऽत्र वैष्णवैः” । “प्रातर्गोवर्द्धनं पूज्य रात्रौ जागरणं चरेत्” इति क्वचित् पाठः । तस्मा- त्तदिदं कर्म गोवर्द्धनप्राधान्येन गोप्रधान्येन च ख्यात- मप्येकमेव ज्ञेयम् । तत्र दिननिर्णयमाह देवलः “प्रतिपद्दर्शसंयोगे क्रीडनैस्तु गवां मतम् । परविद्धान्तु यः कुर्य्यात् पुत्त्रदारधनक्षयः” । निर्णयामृतधृतं पुरा- णान्तरवचनम् “या कुहूः प्रतिपन्मिश्रा तत्र गाः पूजयेन्नृप! । पूजामात्रेण वर्द्धन्ते प्रजा गावो मही- पते! । ततः प्रातर्गोवर्द्धनं पूज्येति पूर्वाह्णतात्पर्य्यके द्वितीयासर्गंस्तु सर्वथा निषिद्धः तद्यथा “नन्दायां दर्शने रक्षाबलिदानदशासु च । भद्रायां गोकुलक्रीडा देशनाशाय जायते” । पुराणसमुच्चये तु सम्भावितचन्द्रो- दयो द्वितीयासंयोग एव निषिध्यते “गवां क्रीडा दिने यत्र रात्रौ दृश्येत चन्द्रमाः । सोमोराजा पशून् हन्ति सुरभी पूजकांस्तथा” । तदुदयसम्भावनञ्च निर्णयामृते निर्णीतं यथा “प्रतिपद्यापराह्णिकत्रिमूहूर्त्तव्यापिन्यां द्वितीयायां चन्द्रदर्शनं सम्भाव्यते तदुक्तमग्न्याधान- विषये वृद्धशातातपेन” द्वितीया त्रिमुहूर्त्ता चेत् प्रति- पद्यापराह्णिकी । अग्न्याधानञ्चतुर्द्दश्यां परतः सोम- दर्शनादिति” । अपराह्णश्च पञ्चधा विभक्तस्याह्नश्चतुर्थोभागः ततश्च यत्र प्रतिपदि पराह्णत्रिमूहूर्त्तव्यापिनी द्वितीया तत्र चन्द्रदर्शनसम्भावनमिति । अन्यदा तूत्तरैव प्रतिपत्तत्र गृहीता तथैवोक्तं पुराणसमुच्चये “वर्द्धमानतिथौ नन्दा यदा सार्द्धत्रियामिका । द्वितीया वृद्धिगामित्वादुत्तरा तत्र चोच्यते” । किञ्च । यदा पूर्णप्रतिपत् परत्र निष्- क्रामति तदाप्युत्तरैव कार्य्या यथोक्तं भविष्योत्तरे “यथा द्वादशभिर्मासैर्मासो वृद्धो मलिम्लुचः । तथैवाहोरात्र- वृद्ध्या तिथिः प्रोक्तो मलिम्लुचः । यथा मलिम्लुचः पूर्व- स्त्याज्योग्राह्य स्तथा परः । त्याज्या तिथिस्तथा पूर्वा ग्राह्या चैव तथोत्तरेति” निर्णयामृतमतम् किन्तु वञ्जुलीन्यायेन पूर्वैव मन्तुं शक्यते । तद्वदत्रापि देवलादिवचनप्रामाण्य- मस्तीति । अथ गोवर्द्धनपूजाविधिः । तत्रैव पाद्मे “मथुरायास्तथान्यत्र कृत्वा गोवर्द्धनं गिरिम् । गोमयेन महास्थूलं तत्र पूज्यो गिरिर्यथा । मथुरायां तथा साक्षात् कृत्वा चैव प्रदक्षिणम् । वैष्णवं धाम संप्राप्य [] मोदते हरिसन्निधौ” । पूजामन्त्रः । “गोवर्द्धन! धराधार! गोकुलत्राणकारक! । विष्णुवाहुकृतोच्छ्रायो गवां कोटि प्रदो भव” गोपूजामन्त्रः स्कान्दे तत्रैव “लक्ष्मी- र्या लोकपालानां धेनुरूपेण संस्थिता । घृतं वहति यज्ञार्थ यमपाशं व्यपोहतु । अग्रतः सन्तु मे गावो गावो मे सन्तु पृष्ठतः । गावो मे पार्श्वतः सन्तु गवां मध्ये वसाम्यहम्” । अथ तत्र गोक्रीडा तत्रैव “क्रोधा- पयेद्धावयेच्च गोमहिष्यादिकं ततः । वृषान् कर्षापयेद्गोपै- रुक्तिप्रत्युक्तिवादनात्” । पाद्मे च तत्रैव “महि- षादेस्तथा भूषा क्रीडनं वारणन्तथा” । तन्माहात्म्यञ्च तत्रैव “एवं गोवर्द्धनो गाश्च पूजनीया विधानतः । गोवर्द्धनमखोरम्यः कृष्णसन्तोषकारकेः” । “गोवर्द्धनस्या- कृतिरन्वकारि” माघः ।
📄 मूल मुद्रित पृष्ठ (2720-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।