गोष्टोम पु० गोसंज्ञः स्तोमोऽत्र । उक्थसंस्थे बहुमन्त्रा- त्मके १ स्तोमभेदे । २ तदुपलक्षिते एकाहसाध्ये यागभेदे च “स एतान् स्तोमानपश्यत् ज्योतिर्गौरायुरितीमे वै लोका एतें स्तोमा अयमेव ज्योतिरयम्भध्यमो गौरसा- वुत्तम आयुः” ता० व्रा० ४ । १ । ७ । “स पूर्व्वोक्तः प्रजापतिः एतान् स्तोमान् स्तोम- शब्देन त्रिवृदादिस्तोमवन्त्यहानि लक्ष्यन्ते । तानि ज्योनिर्गौरायुरिति एतन्नामकान्यपश्यत् । तत्र ज्योति- रग्निष्टोमसंस्थः, गौरायुश्चैते उक्थसंस्थे० ज्योतिष इयं स्तोमकॢप्तिः । त्रिवृद्बहिष्पवमानं पञ्चदशान्याजानि पञ्चदशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठ्यानि सप्त- दश आर्भव एकविंशोग्निष्टोमसामेति । अथ गोष्टोमस्य, पञ्चदशोबहिष्पवमानः त्रिवृदाज्यानि सप्तदशम्माध्यन्दिनं सवनमेकविंशं तृतीयसवनम् । अथायुष्टोमस्य त्रिवृ- द्बहिष्पवमानं पञ्चदशान्याज्यानि सप्तदशम्माध्यन्दिनं सवनमेकविंशं तृतीयसवनमिति । एते उक्ताः स्तोमा इमे लोका वै भूरादिकाः खलु, कः कतमोलोक इति बुभुत्सायामाह अयमेव लोकोज्योतिः, अयम्मध्यमो- ऽन्तरिक्षलोको वै असावुत्तमस्तृतीयः स्वर्लोक आयुः, स्तोमत्रयस्य लोकत्रयेण सह संख्यासाम्यात् तच्छब्दता एतैः त्रिभिः स्तोमैः साधनैस्त्रीन् लोकान् प्राजनयदिति शेषःअथैतान् विधत्ते” भा० । “यदेते स्तोमा भवन्तीमानेव लोकान् प्रजनय- न्त्येषु लोकेषु प्रतितिष्ठन्ति” ता० व्रा० ८ । “यदेषोऽति- रात्रो भवतीति वाक्यवदेतत्सर्वं व्याख्येयम् । अभि- प्लवषडहस्योत्तरं त्र्यहं विधातुमाह” भा० “स एत न्त्र्यहं पुनः प्रायुङ्क्त तेन षडहेन षट्क्रतून् प्राज- नयत्” ता० व्रा०९ । “स प्रजापतिरेतं पूर्व्वोक्तं त्र्यहं पुनः प्रयुक्तवान् । गौरायुर्ज्योतिरिति क्रमोऽत्रावगन्तव्यः । तथा चापस्तम्बः “ज्योतिष्टोममग्निष्टोमं रथन्तरसामानङ्गा- मुक्थं वृहत्सामानमायुषमुक्थं रथन्तरसामानं ज्योति- ष्टोमं वृहत्सामानमिति । नन षडहेन षट् क्रतून् वसन्ता- [] दीन् प्राजनयत् सृष्टवान् । अथार्थवादानुगुण्याय पूर्व्व- विहितेन त्र्यहेन संयुज्य इममुत्तरं त्र्यहं विधत्ते” भा० । “तदेष षडहो भवति ऋतूनेव प्रजनयन्ति ऋतुषु प्रतितिष्ठन्ति” ता० व्रा० १० ।
📄 मूल मुद्रित पृष्ठ (2726-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।