गोप(ष्प)द[फ्णीङ्थ्छ्ःआङ्घै१] न० गोः पदं पदस्थानयोग्यस्थानम् । “गो- ष्पदं सेवितासेवितप्रमाणेषु पा० उक्तार्थे सुट्षत्वे । गवामसेविते वनादौ । १ गोसेविते गोर्गतिगोचरे स्थाने २ गोपदमात्रप्रमाणे क्षेत्रे न० तद्भिन्नार्थे न सुट् । ४ गोश्चरणे । [1] Correction submitted by SergeA on 20170901. Reference: https://github.com/sanskrit-lexicon/alternateheadwords/issues/23. note: * OK.
गोष्पद न० गोः पदम्, गावः पद्यते यस्मिन् देशे वा “गोष्पदं सेवितासेवितप्रमाणेषु” पा० सेवितादौ षुट् । गोः पदजाते १ गर्त्ते, २ गोपदप्रमाणे च । ३ गोभि सेवि- तदेशे ४ तदसेविते वनादौ च । “बाहुभ्या सागरं तीर्त्त्वा लङ्घितुं गोष्पदं लघु” रामा० ल० ६९ स० । “भीष्म- द्रोणार्ण्णवं तीर्त्वा कर्णपाताल (बडवानल) सम्भवम । मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम्” भा० श० ७ अ० । ५ प्रभांसक्षेत्रस्थे तीर्थभेदे । तत्स्थानादि स्क० पु० प्रभा० “इयं सरस्वती पुण्या सर्वदैव हि विद्यते । पञ्चस्रोताः प्रभासे तु दुष्प्रापा त्रिदशैरपि । तस्या यत्पञ्चमं स्रोतो न्यङ्कुमत्यास्तटानि च । तम्य मध्ये स्थितं तीर्थं गोष्प- देति च विश्रुतम्” “पापिनां मुक्तिदं तीर्थमाद्या रुद्र गया स्मता । तदास्मिन् गोष्पदं नाम कलौ ख्यातं धरातले । यदा क्षीरोदमथनात् प्रसूता लोकमातरः । तदा देवि! समन्तात्तु ता गतास्तीर्थसन्निधौ । पदं तत्र निमग्नं च नन्दिन्याश्च शिलांतले । शिलां खुरा- ङ्कितां दृष्ट्वा जानुदेशाङ्कितां तथा” इत्युपक्रमे देवान् प्रति नन्दिनीवाक्यम् । “इदं मम पदं देवाः! शिला- संस्थं विराजते । गगनाङ्गणभूमिस्थं चन्द्रविम्बमिवा परम् । अद्य प्रभृति भो देवा! स्त्रैलोक्ये सचराचरे । गोष्पदं नाम विख्यातं लोके ख्यातिं गमिष्य ति” ।
📄 मूल मुद्रित पृष्ठ (2706,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।