गोसव पु० गौः सूवते हिंस्यतेऽत्र सू--हिंसायाम् आधारे अप् पूर्व्वपदात् वा न षत्वम् । गोसत्राख्ये यज्ञभेदे “स्वर्जिता गोसवेन वा” हेमा० दा० लिङ्गपु० । तत्कर्त्त- व्यता च कात्या० श्रौ० २२, ११, ३ सूत्रादौ उक्तं यथा “ऋषभगोसवौ” १ सू० “ऋषभोगोसवश्च क्रतू भवतः” कर्कः “पूर्वो राज्ञः” २ सू० “पूर्वः ऋषभसंज्ञको राज्ञः” कर्कः “दक्षिणा ऋषभसहस्रं द्वादशं वा शतम्” ५ सू० “विकल्पेन ऋषभसंज्ञक ऋषभाणां सहस्रं, द्वादशाधिकं शतं वा” (दक्षिणा) कर्कः । “उक्थ्यो गोसवोऽयुत दक्षिणः” ६ सू० । गोसवसंज्ञः क्रतुरुक्थसंस्थो भवति अयुतदक्षिणश्च कर्कः । “वैश्ययज्ञ इत्येके” ७ सू० मन्यन्ते । “सर्वेषामित्यपरे” ८ सू० । सराजानो विशो यं पुरस्कुर्वीरन् स एतेन यजेत” ९ सू० । “राज्ञा सहिता विशः प्रजाः सर्थे पुरुषा यं पुरस्कुर्वीरन् मुख्यत्वे- नाङ्गीकुर्वीरन् स गोसवेन यजेत” । आस्थ- ण्डिलेऽमिषिच्यते” १० सू० । “प्रतिदुराहवनीयस्य दक्षि- णतः” १ सू० । “स्थितः आगान्तुकत्वादन्ते । आहवनीयात् दक्षिणस्यां स्थण्डिले उपविष्टो यजमानः प्रतिदुहा- धारोष्णेन दुग्धेनाभिषिच्यते “संस्थपतिरित्येनं ब्रूयुः “गोसबयाजिनं जनाः” कर्कः । “वैश्यस्तीम दक्षिणा- [] लिङ्गो मरुत्स्तोमोगणयज्ञो भ्रातॄणां सखीनां वा २२ सू० । वैश्यस्तोमदक्षिणायां यानि लिङ्गानि तान्यत्रापि भवन्ति” कर्कः । गां स्वर्गं सुनोति अच् षत्वम् “दातुः स्वर्गदातरि” “तिलोऽसि सोमदैवत्यो गोषवो देवनिर्म्मितः” तिलदानमन्त्रः ।
📄 मूल मुद्रित पृष्ठ (2727-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।